SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०३ दशमः खण्डः-सर्वसाधारणक्रमः चक्रनिर्माणम् चक्रनिर्माणप्रकारमाह- . बिन्दुत्रिषडरनागदळचतुष्पत्रचतुरश्रमयं चक्रम् ॥४॥ अष्ट द ळं च तुर्द ळं पद्मद्वयम् । शेषं स्पष्टम् ॥ ४ ॥ षडावरणीपूजा अथावरणदेवतास्थानमाह बिन्दौ मुख्यदेवतेच्छाज्ञानक्रियाशक्तयस्यश्रे षडरे तत्तत्षडङ्गान्यष्टदळे ब्राह्मयाद्याः चतुर्दळे गणपतिदुर्गावटुकक्षेत्रेशाश्चतुरश्रे दिक्पालाः ॥ ५॥ द्वितीयावरणमाह-इच्छे ति । क्रमः स्वाग्रादिप्रादक्षिण्येन । तृतीयमाहषड र इति । क्रमः प्राक्कोणमारभ्येशानान्तम् । चतुर्थमाह-अष्ट द ळ इति । क्रमः पूर्ववत् । चतुर्द ळे पञ्चमावरणे । क्रमः प्रागादिदिक्षु । च तु र श्रेऽपि तथैव प्रांगादीशानान्तं ऊर्ध्व अधश्च ज्ञेयम् । एवं षडावरणीपूजा ॥ यद्यपि प्रधानदेवतायाः अन्ते पूजाऽन्यत्रास्ति, तथाऽप्यत्र विपरीतं, तथा पाठात् ॥ ५ ॥ सर्वमन्त्रयोज्यबीजानि सर्वमन्त्रेषु योज्यान बीजानाह--- त्रितारीकुमारीभ्यां सर्वे क्रममत्राः प्रयोक्तव्याः॥६॥ त्रि तारी श्रीक्रमोक्ता । कुमारी बाला ॥ ६ ॥ .. आवाहनादिमन्त्राः तत्तन्मूलेनावाहनं कलामनुना बलिरनेन क्रमेणाहुतिः ॥७॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy