SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 1 २९४ परशुरामकल्पसूत्रम् एतेन ॐ वैश्वानरेति बहिः निर्गमय्य कुण्डे प्रक्षेपात् प्राक् अर्थक्रमेण पाठक बाधित्वा प्रयोगानुष्ठानकाले पाठः, उत्थापनस्य प्रक्षेपपूर्वकालिकत्वात् ॥ १२ ॥ प्रज्वालनम् प्रज्वालनमन्त्रमाह चित्पिङ्गळ हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा इति प्रज्वल्य ॥ १३ ॥ प्रज्वालनं वेणुधमन्या, “ मुखेनाग्निं नोपधमेत्” इति स्मृतेः ॥ १३ ॥ अग्नेः पुंसवनादिसंस्काराः उत्पन्नाग्नेः संस्कारानाह षट्तारवाचो नमोमत्रेण पुंसवनसीमन्तजातकर्मनामकरणान्नप्राशन चौळोपनयनगोदानविवाहकर्माण्यमुकाग्रमुकं कर्म कल्पयामि नमः इति विधाय ॥ १४ ॥ षट्तार वाचः उक्ताः । नमो मन्त्रेण नमोऽन्तमन्त्रेण । स्वयमेव नमोऽन्तमन्त्रं विवृणोति---अ मुके त्यादिना । इत्थं च प्रथमं षट्तारी ततः ऐं ततः इष्टदेवतानाम ततोऽग्निशब्दः षष्ठयन्तः पुंसवनादिकर्मनाम द्वितीयान्तं ततः कल्पयामीति ॥ १४ ॥ परिषेचनादि परिषिच्य परिस्तीर्य परिधाय ॥ १५ ॥ परिषिच्य, अनुक्तत्वात् ऐशानीमारभ्य प्रदक्षिणं समन्तात् सामान्याध्योंदकेन । परिस्तीर्य – परिस्तरणे एकैकदिशि चत्वारो दर्भाः, “ अग्निं षोडशभिर्दर्भैः
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy