SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् अस्या उपासने हेतुमाह प्रभुहृदयज्ञातुः पदेपदे सुखानि भवन्ति ॥ २ ॥ अस्याः श्रीललिताहृदयरूपत्वात् एतदुपासनेन तत्प्रीतौ संपादितायां प्रधानदेवीप्रीतिसंपादनं सुगममिति ध्वनितम् ॥ २ ॥ परापद्धतिप्रारम्भः अस्याः क्रमव्याख्यानं प्रतिजानीते अथोऽनुत्तरपद्धति व्याख्यास्यामः ॥ ३॥ अथो इति समुच्चयार्थो निपातः । अग्रिमवणे पूर्वरूपमार्षम् ॥ ३ ॥ उष:कृत्यम् कल्ये समुत्थाय ब्रह्मकोटरवर्तिनि सहस्रदळकमले सन्निविष्टायाः सौवर्णरूपायाः परायाश्चरणयुगळ - विगळदमृतरसविसरपरिप्लुतं वपुः ध्यात्वा ॥ ४ ॥ कल्ये उषसि । “प्रत्यूषोऽहर्मुखं कल्यं" इत्यमरः । ब्रह्म को ट रं ब्रह्मबिलम् । सौ वर्ण रूपा या इति—सुवर्णस्येदं सौवर्ण पीतं इत्यर्थः । सौवर्ण रूपं यस्याः तस्याः । विगळ त् प्रस्रवत् अ मृ त र सः अमृतसारं तस्य यो वि स रः व्याप्तिः तेन प रि ल्पु तं स्नातं ध्या त्वा । इति ब्राह्ममुहूर्तकृत्यम् ॥ ४ ॥ स्नानादिकृत्यम् अथ स्नानादिकृत्यमाह स्नातः शुचिवासो वसानः 'सौः वर्णेन त्रिराचम्य द्विः परिमृज्य सकृदुपस्पृश्य चक्षुषी नासिके श्रोत्रे अंसे नाभिं हृदयं शिरश्चावमृश्य एवं त्रिराचम्य ॥५॥ 'सौवर्णेन-ब२,
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy