SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २८ परशुरामकल्पसूत्रम् तृतीयलक्षे संप्राप्ते द्रावयन्ति सुराङ्गनाः ॥ इत्युक्तम् ।। स्वर्गभूपाताळादिवासिलोकवशीकरणकामो नवलक्षं, पूर्ववचने तथा श्रुतत्वात् इत्थं च एकलक्षात्मकं मन्त्रसिद्धयर्थ पुरश्चरणं विधाय मन्त्रसिद्धिं संपाद्य पश्चा तत्तत्कामनायां सत्यां तत्तत्संख्याकं कुर्यात् । अत एव ज्ञानार्णवे एकलक्षमार नवलक्षपर्यन्तं एकद्विव्यादिलक्षसंख्यानां फलं पृथगेवोक्तम् । ग्रन्थविस्तरभया न लिखितम् ॥ पञ्चदश्यादिविद्यासु मन्त्रशोधनानपेक्षा यद्यपि सिद्धारिचक्रादिमन्त्रशोधने[न] तन्त्रान्तरे बहुशोऽस्ति, तथाऽपि नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।। सपिण्डाक्षरमन्त्राणां सिद्धादीन् 'नैव शोधयेत् ॥ इति सौरतन्त्रे । डामरे---- पञ्चदशी षोडशी च तथा सर्वाङ्गसुन्दरीम् । चण्डालेभ्योऽपि गृह्णीयात् यदि भाग्येन लभ्यते ॥ न शुद्धिं चिन्तयेदत्र भावशुद्धेर्हि शुद्धता । नात्र शुद्धयाद्यपेक्षाऽस्ति नारिमित्रादिशोधनम् ॥ इति ॥ तन्त्रराजे च नित्यानां त्रैपुराणां च नावेक्ष्यास्त्वंशकादयः ॥ इति ॥ प्रकृते तद्विचारस्याप्रयोजकत्वात् न लिखितम् ॥ ____ इयं पूर्वोक्तसङ्ख्या पुरश्चरणे कृतयुगे । “ कलौ चतुर्गुणं प्रोक्तं" वचनात् कलियुगे चतुर्गुणम् । इत्यलं पल्लवितेन ॥ ३७ ॥ । . पूजाशेषकृत्यम् एवं प्रसंगात् पुरश्चरणमुक्त्वा पूजाशेषकृत्यमाह'न विचारयेत्—बर. १ नचामित्रादिदूषणम्-मं, १२.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy