SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सप्तमः खण्डः – वाराही क्रमः अनन्तमूर्ध्नि देव्येषा धरा यस्मात् प्रतिष्ठिता । तेन सत्येनावतु मामनन्तः सर्वरक्षकः ॥ नमः स्वप्नाधिपतये रुद्रायामिततेजसे । इष्टार्थान् सम्यगाचक्ष्व नाशयानिष्टसूचकान् ॥ रुद्रमन्त्रं त्रिधा जप्त्वा विन्यस्याङ्गेषु सुस्वपेत् ॥ इति ॥ रुद्रमन्त्रोऽपि तत्रैवोक्त: तारश्च हृदयं वै च स्वप्नाधिपतये ततः । रुद्राय हृदयं मूर्ध्ना नृपवर्णः स्मृतो मनुः ॥ इति ॥ “ ॐ नमः स्वप्नाधिपतये रुद्राय नमः स्वाहा " इति षोडशाक्षरो मन्त्रः ॥ हविष्यपदार्थगणम् . पूर्व हविष्याशननियम उक्तः । तत्र हविष्याणि तन्त्रे त्रीहिजास्तण्डुलाश्चैव यवाः कृष्णतिलास्तथा । मुद्रा नीवारकाचापि षष्टिकाश्च महेश्वरि || सैन्धवं चापि सामुद्रं लवणं द्विविधं स्मृतम् । गव्यं वृतं पयश्चैव दधि निस्सृतसारकम् ॥ ऐक्षवं सर्वमेव स्यात् गुडवर्ज महेश्वरि । फलं तु नारिकेळं स्यात् कदळी लवली तथा ॥ तिन्त्रिण्यम्रफलं तद्वत् दाडिमस्य फलं तथा । आर्द्रकं नागरं धात्री तथैव च हरीतकी ॥ पटोल वास्तुशाकं च कन्दं स्यात्तु पवित्रकम् । निवेदितं तथाऽन्यद्वा चार्थप्राप्तं न सन्त्यजेत् ॥ इति ॥ २७५ वास्तुशाकं महाराष्ट्रभाषया चाकवत् इति प्रसिद्धम् । कन्दे अन्यस्मिंश्च पवित्रकमित्य-, स्यान्वयः । तथा च पवित्रं कन्दं, उक्तादन्यत् यत् पवित्रं अनिच्छया प्राप्तं तदपि हविष्ये ग्राह्यमिति भावः ॥ 1 सर्वभक्ष - श्री. म. 2
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy