SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ षष्ठः खण्डः श्यामाक्रमः श्यामाविद्याऽऽचार्य पूजा श्रीश्यामाविद्या' प्रवर्तकाचार्यपूजां तेषां स्थानं चाह -- हंस मूर्ति पर प्रकाशपूर्णनित्यकरुणसंप्रदाय गुरूंश्चतुपूर्व रेखायामभ्यर्च्य ॥ ३१ ॥ हंस मूर्तिश्च परप्रकाशश्च पूर्णश्च नित्यश्च करुणश्च ये ते संप्रदायगुरवः तान् चतुरश्र पूर्व रेखायां उदगपवर्ग पूजयेत् इति तदर्थः । मन्त्रस्वरूपं च - हंसमूर्तिसंप्रदायगुरु श्रीपादुकां पूजयामि । एवमग्रिममंत्रेष्वपि संप्रदायगुर्विति योज्यम्, “ द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सर्वत्र सम्बध्यते " इति न्यायात् ॥ ३१ ॥ गुरुपादुकापूजा एवं चक्रपूजां समाप्य गुरुपादुकापूजामाह स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् ॥ ३२ ॥ सामान्य गुरुपादुका मन्त्रः दीक्षाखण्डे प्रतिपादितः । वि शेष गुरुपादुका मन्त्रः चरमखण्डे श्यामागुरुपादुकेत्युद्धृतः । ताभ्यां मन्त्राभ्यां स्वशिर सि पादुकाद्वयं संपूजयेत् ॥ ३२ ॥ २३७ देव्याः पुनः पूजा एवं गुरुपादुकाऽर्चनान्तं आवरणपूजामुक्त्वा प्रधानदेवतापूजापुरस्सरं बलिप्रदानं विवृणोति --- पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान् विधाय ॥ ३३ ॥ मूलेनेति शेषः । पुनरित्यनेन षडङ्गदेवताभ्यः प्राक् प्रधानदेव्यर्चनं ज्ञापितम् । बाल ये ति स्पष्टम् ॥ ३३ ॥ 1 ' प्रवर्तक पूजाssचार्य ' इति कोशेषु.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy