SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् नमोऽन्तैश्चतुर्थ्यन्तैरेतैर्नामभिः वह्निकळापूजनमाधारे कुर्यात् । नमोऽन्तत्वं चतुर्थ्यन्तत्वं सूर्येन्दुकास्वपि द्रष्टव्यम् । पात्रं प्रतिष्ठाप्य इति निरुक्तस्थापिताधारे इति शेषः । वह्न्न्यादिकळानामभ्यर्चनं पश्चिमादिप्रादक्षिण्येन । प्रमाणमुक्तं प्राक् । शेषं स्पष्टम् । अग्नीशेति —– तत्प्रकारः पूर्वमेव दर्शितः । अस्त्रेण अस्त्रमन्त्रेण । कवचेन कवचमन्त्रेण ॥ २३० केचित्तु - अ व कुण्ठ्ये त्यनेन अवकुण्ठनमुद्राकवचमन्त्रयोः ग्रहणं कार्यम् । अवकुण्ठनमुद्रास्वरूपमुक्तं तन्त्रे हस्तद्वयं मुष्टिरूपं तर्जन्यावृजुरूपके । युगपत् भ्रामयेत् ताभ्यां मुद्रेयमवकुण्ठिनी ॥ इति प्रजगुः ॥ धेनुः धेनुमुद्रा । इयं लोके बहुरूढा । तथाऽपि तत्प्रमाणं लिख्यते— तर्जन्यादिचतुष्कं तु प्रोतं हस्तद्वयस्थितम् । दक्षतर्जन्यनामायां वाममध्यकनिष्ठिके ॥ वामतर्जन्यनामायां दक्षमध्यकनिष्ठिके । मुखी मुद्रा इति परमानन्दतन्त्रे स्थितम् । योनिस्तु पूर्वमुक्ता । सप्त शः सप्तकृत्वः । त ज्ज ल विप्रुड् भिः सामान्यार्घ्यविप्रुभिः ॥ १८ ॥ विशेषार्घ्यविधिः ताभिरीकाराङ्कितत्रिकोण' वृत्तचतुरश्रं मण्डलं विधाय तस्मिन् पुष्पाणि विकीर्य पूर्ववदाधारं प्रतिष्ठाप्य अग्निकळा अभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महालक्ष्मीश्वरि परमस्वामिनि ऊर्ध्वशून्य 1 षट्कोण – श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy