SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २२२ परशुरामकल्पसूत्रम् मत्रभस्मजलस्नानेष्विष्टं विधाय वस्त्रं परिधाय ॥४॥ मन्त्र स्ना न मुक्तं त्रिपुरार्णवे वस्त्रेणाईण चाङ्गानां कृत्वा प्रोञ्छनमादितः । मूलं जपन् सप्तधा तु आपादतलमस्तकम् ॥ तलाभ्यां संस्पृशेत् देवि मन्त्रस्नानं प्रकीर्तितम् । एतत्स्नानमशक्तस्य विहितं शुद्धिहेतवे ॥ इति ॥ भस्म स्नान मुक्तं शिवरहस्ये. . शुद्धं भस्म करे धृत्वा मूलमष्टशतं जपेत् । सर्वाङ्गेष्वनुलेपेन भस्मस्नानमुदाहृतम् ॥ इति ॥ जल स्नानं श्रीललिताप्रकरणोक्तम् । अत्र मुख्यं जलस्नानं, जलाधलाभे कर्मकाले प्राप्ते अशक्तौ गुरुकार्यार्थ क्षिप्रं गच्छता च मन्त्रस्नानादि कार्यम् । तदुक्तं नारदपाञ्चरात्रे-" अथ मान्त्रं शुभं शृणु" इत्युपक्रम्य, तोयाभावे तु समये दुर्गमार्गेऽवसीदतः । गमने क्षिप्रसिद्धयर्थ गुरुकार्येष्वतन्द्रितः ॥ मन्त्रस्नानं प्रकुर्वीत . . . . . . . . . इति ॥ ___ इतोऽपि लघुस्नानं वीरतन्त्रे मणिबन्धादधोहस्तौ पादौ गुल्फो तथाऽऽननम् । शोधयेत् स्नानमेतत् स्यात् पञ्चाङ्गं शुद्धिदायकम् ॥ इति ॥ इमानि स्नानानि शक्तितारतम्यात् अशुचित्वतारतम्याच्च व्यवस्थितानि ज्ञेयानि ।। अन्यान्यपि मानसिकध्यानस्नानादीनि ग्रन्थविस्तरभयात् नेह लिखितानि, तन्त्रान्तरात् द्रष्टव्यानि ॥ ४ ॥ सन्ध्यां विधत्ते सन्ध्यामुपास्य सवितृमण्डले देवीं सावरणां विचिन्त्य मूलेन त्रिरयं दत्वा यथाशक्ति सन्तर्प्य ॥५॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy