SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पञ्चमः खण्ड:-ललितानवावरणपूजा २०३ प्रियाक्षरा विशेषज्ञा देवतापूजनोत्सुका । मनोहरा सदाचारा शक्तिरेवं सुलक्षणा ।। इति ॥ योगिनीतन्त्रेऽपि सवर्णा हीनवर्णा वा कुलस्था कुलटाऽपि वा । मन्त्रोपासनसंयुक्ता पूज्या स्यात् गणिकाऽपि च ॥ इति ॥ __दोषा अपि कुलार्णवे दूष्या च कर्कशा लज्जाहीना च कुलदूषिणी । दुराचारा दुराराध्या भीता क्रुद्धा चलाऽलसा ॥ निद्रासक्ताऽतिदुर्मेधाः हीनाङ्गी व्याधिपीडिता । दुर्गन्धा दुःखिता मूढा वृद्धोन्मत्ता रहस्यभित् ।। ईदृशीं मन्त्रयुक्तां च पूजाकाले विवर्जयेत् ॥ इति । ___ यश्च योगिनीतन्त्रे योग्या वाऽपि निषिद्धा वा बहुदोषाकुलाऽपि वा । काले सुवासिनीं प्राप्तां सर्वथा भक्तितोऽर्चयेत् ॥ इति ॥ ___ सः मुख्यालाभे पूर्ववचनैः निषिद्धाया अभ्यनुज्ञापरः, विवाहे अनृतवदनवत् । यद्वा-पूर्ववचनैः निषेधः प्रतिपादितो यः स शक्तिपूजापरः । योग्या वा इत्यनेन तदतिरिक्तं सुवासिनीमात्रे पूजनं तत्काले प्रतिपादयति । युक्तश्चायमेव पक्षः ॥ २१ ॥ हविश्शेषप्रतिपत्तिः हविश्शेषप्रतिपत्तिमाह शिष्टैः सार्धं चिदग्नौ हविश्शेषं हुत्वा ॥ २२ ॥ अत्र शिष्ट त्वं कुलार्णवे दर्शितम् अहो भुक्तं तु यन्मद्यं मोहयेत् त्रिदशानपि । तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः ॥ जपन् शिवपरो भूत्वा स मुक्तः स च कौळिकः ॥ इति ॥ 1 प्रियेक्षणा-श्री,
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy