SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पञ्चमः खण्डः – ललितानवावरणपूजा निवारिण्यङ्गसुन्दरीसौभाग्यदायिनीः सर्वपूर्वाः संपूज्यैताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधक' चक्रे मनुशेषमुक्त्वा मन्त्रासनमुच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्य स इत्युन्मादिनीमुद्रां दद्यात् ॥ ७ ॥ नवचक्रेषु दशारद्वयमस्ति । तयोर्मध्ये यत् बहिर्दशा रं तत्रेत्यर्थः । शेषं व्याख्यातप्रायम् । अत्रापि क्रमाकांक्षायां पूर्वचक्रवदेव क्रमः । वामकेश्वरतन्त्रे तथैवेत्यनेन पूर्वचक्रक्रमातिदेशात् ॥ ७ ॥ षष्ठावरणपूजा षष्ठावरणपूजामाह अन्तर्दशारे ज्ञानशक्त्यैश्वर्यप्रदाज्ञानमयीव्याधि विनाशिन्याधारस्वरूपापापहराऽऽनन्दमयीरक्षाख - रूपिणीप्सितफलप्रदाः सर्वोपपदा यष्टव्या एता निगर्भयोगिन्यः सर्वरक्षाकरचक्रे शिष्टं तद्वत् साध्यसिद्धासनमुच्चार्य त्रिपुरमालिनी मान्या क्रोमिति सर्वमहाङ्कुशां दर्शयेत् ॥ ८ ॥ १८३ सर्वोपपदाः सर्वपूर्वाः । मान्या पूज्या । क्रमस्तु पूर्ववत्, “पूर्वोक्तेन विधानेन " इति योगिनीतन्त्रात् । शेषं व्याख्यातकल्पम् ॥ ८ ॥ सप्तमावरणपूजा सप्तमावरणपूजामाह अष्टारे वशिन्याद्यष्टकं नमःस्थाने पूजामन्त्रसन्नाम एता रहस्ययोगिन्यः सर्वरोगहरचक्रे शिष्टं स्पष्टं 1 चक्रे इति मनु – श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy