SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४२ परशुरामकल्पसूत्रम् इति ग्रन्थेन । तस्मात् निरवकाशविशेषद्रव्यस्वीकारविधेः क्रत्वर्थत्वकल्पनात् निषेधस्य । च केवलपुरुषार्थत्वेन एकार्थत्वाभावात् । अत एवैतदभिप्रायसूचकमेव कामादिति त्रिपुरार्णवे, कुलार्णवे च कामकृते इति, पदं पठितम् । एवं तन्त्रान्तरे दोषोऽन्यत्र वरारोहे यज्ञे दोषो न विद्यते । अश्वमेधादियज्ञेषु वाजिहत्या यथा भवेत् ॥ इति सदृष्टान्तमुक्तार्थमेव द्रढयति ॥ अत्र ताराभक्तिसुधार्णवे “ एवं च वीरस्यापि ब्राह्मणस्य क्षीरमेव अन्यस्य तदपि न" इति भावशोधनप्रकरणे उक्त्वा एवमेतदने स्थलान्तरे उक्ताया एव प्रतिज्ञाया दृढीकरणाथै बहुविचारः कृतो नृसिंहाचार्यैः । तथा हि वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविभूषितम् । द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ तर्पणमत्र पानमेव । इदं तु ब्राह्मणेतरविषयम्, ब्राह्मणस्य तदुपादाननिषेधात् ॥ ननुब्राह्मणैस्तु सदा पेयं क्षत्रियैस्तु रणागमे । वैश्यैर्धनप्रयोगे च शूद्वैस्तु न कदाचन ॥ इति कुलार्णवे, सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् । इति समयाचारतन्त्रे, सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टजैः । त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः ॥ मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे । पूजनीया कलौ देवी केवलैरासवैः शुभैः ॥ इति यामळे चोक्तत्वात् कथं ब्राह्मणस्यानधिकार इति चेत्— उच्यते । " विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः' इति लघुस्तवे,
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy