SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् कर्मसामान्येन संबद्धं एवमेव संकल्पोऽपि । एतदनुगुणानि वचनानि च सन्ति ।। यथा अनाचम्य कृतं यच्च यच्च संकल्पवर्जितम् । राक्षसं तद्भवेत् कर्म . . . . . . . ॥ इति दानधर्मे महाभारतवचनम् । आदौ सङ्कल्प उद्दिष्टः पश्चात्तस्य समर्पणम् । अकुर्वन् साधकः कर्मफलं प्रामोत्यनिश्चितम् ॥ इति रुद्रयामळवचनाच्च । तथैव शिष्टाचारोऽपि । अतः सः आवश्यकः इति गाणनायक्याः सपर्याया अपि श्रीविद्याऽङ्गत्वादावश्यक एव संकल्पः । अष्टाङ्गोल्लेखनं च अवश्यं तान्त्रिकं कालमुल्लिखेदन्यथा शिवे । बहिर्मुखं तु तत्कर्म भवेद्भस्महुतं यथा ॥ इति यामळवचनादष्टाङ्गोल्लेखनमावश्यकम् । एवमेव श्यामाऽऽदौ ज्ञेयम् ॥ ततः षडङ्गा नि मूलमन्त्रषडङ्गानि हृदयादिस्थानेषु विन्य भ्य स्थापयित्वा सकल मू ले न करतलाभ्यां सर्वाङ्गे विन्यसेत् । इदमेव व्या पक कर णम् । तदुक्तं परमानन्दतन्त्रे तलाभ्यां निखिलाङ्गस्य स्पर्शनं व्यापकं भवेत् ॥ अत्र निबन्धोक्तं “रक्तद्वादशशक्ति युक्ताय” इत्यारभ्य “मातृकान्यास विदध्यात्' इत्यन्तं अश्रद्धेयम् ॥ ___ स्वात्म नि स्वहृदये। आत्मशब्दो मनसि प्रसिद्धः । मनोहृदययोरैक्यात् तदर्थत्वम् । आद्यविशेषणचतुष्टयार्थः स्पष्टः । मा तुलुङ्गं फलविशेषः । गदा आयुधविशेषः । पुण्ड्रेक्षुः नानारेखायुक्तेक्षुः, अनेकवर्ण इति यावत् । तद्रूप का मुक श्चापः । शूल: आयुधविशेषः । सुदर्श नं चक्रम् । शंख पा शौ प्रसिद्धौ । उत्प लं कमलम् । शेषाणि प्रसिद्धानि । एवं मातुलुङ्गादिरनकलशान्तैः प रि प्कृतं पाण्ये काद श कं यस्येदृशम् ॥ ' नाथाय-ब, .. अनेकरूप इति-ब२.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy