SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् प्रातःकृत्यं ध्यानादि तर्पणान्तम् एवं गणनायकोपास्तेः आवश्यकतामुक्त्वा तदुपासनाप्रकारं प्रपश्चयति ब्राह्म मुहूर्त उत्थाय द्वादशान्ते सहस्रदळकमलकर्णिकामध्यनिविष्टगुरुचरणयुगळविगळदमृतरसविसरपरिप्लुताखिलाङ्गो हृदयकमलमध्ये ज्वलन्तमुदयदरुणकोटिपाटलमशेषदोषनिर्वेषभूतमनेकपा - ननं नियमितपवनमनोगतिर्ध्यात्वा तत्प्रभापटलपाटलीकृततनुः बहिर्निर्गत्य मुक्तमलमूत्रो दन्तधावनस्नानवस्त्रपरिधानसूर्यार्घ्यदानानि विधाय उद्यदादित्य वर्तिने महागणपतये तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् इत्ययं दत्वा नित्यकृत्यं विधाय चतुरावृत्तितर्पणं कुर्यात् । आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः । कवित्वं भुक्तिमुक्ती च चतुरावृत्तितर्पणात् ॥ २ ॥ ब्रा ह्म मुहूर्ते उषःकाले उ त्था य, शयनादिति शेषः । द्वा द शान्ते-- ललाटोज़ कपालोावसानं द्वादशान्तपदवाच्यं, तस्मिन् । तदुक्तं स्वच्छन्दसंग्रहे द्वादशान्तं ललाटोज़ ललाटोावसानकम् ॥ इति ॥ यद्वा-द्वा द शान्ते स्थूलशरीरे सुषुम्नानाडीमाश्रित्य द्वात्रिंशत्पद्मानि सन्ति । तेषु सहस्रदळकमले द्वे, सर्वाध: अकुलनामकमेकमूर्ध्वमुखं, सर्वोय द्वादशान्तनामकमधो मण्डलव-अ. 1 ते चोत्था-ब. एतदादि 'यद्वा' इत्यन्तं ब. कोशे नास्ति.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy