SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ६ पाणिनिमूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो0 299. रामो नारायणतः प्रति । तेन तुल्य इत्यर्थः । वा० । आधादिभ्य उपसङ्ख्यानम् । ( 3339.) आदौ आदितः । मध्यतः । अन्ततः । पृष्ठतः । पाश्चतः । अस्मिन्नेव अन्थे श्लो. 1389. इतोऽत्र देशे। आधादित्वात्तसिरिति व्याख्यानम् । पञ्चम्यास्तसिल । किमादिभ्यस्तसिल सावैविभक्तिकः । आद्यादिः-५.५५. २११२ । अपादाने चाहीयरहोः । (५. ४. ४५) अपादाने या पञ्चमी तदन्ताततिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति । . अस्मिन्नेव ग्रन्थे श्लो. 215. केकयीतः कैकेय्याः । अपादानपञ्चम्यन्तातसिः । भरतोऽभूत् । अस्मिन्नेव ग्रन्थे श्लो० 1527. दिलीपः तां पत्नी स्थादवारोहयत् । निषेधान्न तसिः । पञ्चम्यास्तसिल । कुतः इतः इत्यादयः । दक्षिणतः । उत्तरतः । अतसुच् । २११७ । कृभ्वस्तियोगे सम्पद्यकर्तरि च्चिः । (५. ४. ५०) वा० । अभूततद्भाव इति वक्तव्यम् । (3340.) २११८ । अस्य च्यौ । (७. ४. ३२) अवर्णस्य ईत्स्यात् । च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णस्सम्पद्यते कृष्णी भवति । तं करोति कृष्णी करोति । ब्रह्मो भवति । गङ्गी स्यात् । वा० । अव्ययस्य च्चावीत्वं नेति वाच्यम् । (5052.) दोषाभूतमहः । दिवाभूता रात्रिः । अस्मिन्नेव ग्रन्थे श्लो० 56. घरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । अपयोघराः पयोधरास्सम्पद्यमानाः पयोधरीभूताः । विः । कुगति' (सू. 1761) इति समासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy