SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्राग्दिशीयप्रकरणम् || १९४७ । प्राग्दिशो विभक्तिः । (५.३.१ ) दिक्शब्देभ्य इत्यतः प्राकू वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः । १९५३ | पञ्चम्यास्तसिल् । ( ५.३.७ ) , I पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा । किमादिभ्यः किंसर्वनामबहुभ्यः । कुतः कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । ' अपादाने (सू. 2112 ) इति तसिः । ग्रामादागच्छति ग्रामत मागच्छति । अहीयरुहोरिति निषेधात् । स्वर्गाद्धीयते । पर्वतादवरोहति । वृक्षावृक्षं परिक्रानन् । वृक्षात्सकाशादित्यपा दाने पञ्चमी । जनस्या लोकपथात् । द्यौर्विशिखै रुरुधे । पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति । चोराद्विभेति । चोरात्त्रायते । अध्ययनात् पराजयते । यवेभ्यो गां वारयति । मातुर्निलीयते कृष्णः । उपाध्यायादधीते । ब्रह्मगः प्रजाः प्रजायन्ते | हिमवतो गङ्गा प्रभवति । एते पञ्चम्यन्ता अपादानसंज्ञाः । भट्टिकाव्ये - III. 24. सुप्तो नभस्तः पतितं निरीक्षाञ्चक्रे विवस्वन्तमथ स्फुरन्तम् । आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः ||1811|| नभस्तः पतितम् । ' पञ्चम्यान्तसिल' इति व्याख्याने । पतनस्यापा यरूपत्वादपादाने पञ्चम्यास्तसिरिति मन्ये । भट्टिकाव्ये – VI. 15. अक्षेमः परिहासोऽयं परीक्षां मा कृथा मयि । मत्तो मान्तर्धिथास्सी मा रंस्था जीवितेन नः ॥ 1812 ॥ मत्तो मान्तर्धिथाः । ' पञ्चम्यास्तसिल् ' इति व्याख्याने । ' अन्तर्षी येनादर्शन मिच्छति' (सू. 591 ) इति अपादाने पञ्चम्यास्तसिरिति मन्ये ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy