SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 55. साये सायं वा भका सायन्ननी । ट्युः । डीप् । दिवा भवां दिवातनीम् । पूर्ववत् । सदा भवा सदाननी । पूर्ववत् । माघे-VI. 72. मुदमव्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे । अलिनारमतालिनी शिलीन्भ्रे सह सायन्तनदीपपाटलामे || 1433 || सायं भवस्सायन्तनः । ट्यः । तुडागमः । माघे.-I. 15. न यावदेतावुदपश्यदुस्थिती जनस्तुषारामनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनि चिरन्तनस्तावदभिन्यवीविशत् ।। 1434 !! चिरन्तनः पुराणः । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 441. पुराभवं पुरातनम् । ट्युः । रघुवंशे--I. 20. तस्य संवृतमन्त्रस्य गूढाकारेजितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।। 1435 ॥ प्राग्भवाः प्राक्तनाः। अस्मिन्नेव ग्रन्थे श्लो० 695. सदा भवः सनातनः नित्यः । भट्टिकाव्ये-VI. 13. इदं नक्तन्तनं दाम पौष्पमेतद्दिवातनम् । शुचेवोद्दध्य शाखायां प्रन्लायति तया विना ॥ 1436 ।। मतं भवं नक्तन्तनम् । दिवा भवं दिवातनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy