SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिप्रकरणम् माघे-VI. 6. स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्ररणस्य रजःकणाः । निपतिताः परितः पथिकवजान् ___ उपरि ते परितेपुरतो भृशम् ।। 1242 !! आम्रवणस्य । अनेन णत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 997- शरा बाणतृणानि । तेषां वनं शरवणम् । अनेन णत्वम् ।। १०५१ । विभाषौपधिवनस्पतिभ्यः । (८. ४. ६) एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् दुर्वावनम् । शिरीषवणम् शिरीषवनम् । वा० । यच्च्यभ्यामेव : ₹ 4984.) नेह । देवदारुवनम् । वा० । इरिकादिभ्यः प्रतिषेधो वक्तव्यः । ( 4985.) इरिकादि:-८. ९. इरिकावनम् । मिरिकावनम् । अस्मिन्नेव ग्रन्थे श्लो० 1241. देवदारूणां वनं देवदारुवनम् । यच् इति नियामादिह चतुरक्षराद्वननकारस्य णत्वाभावः । १०५२ । वाहनमाहितात् । (८. ४. ८) आरोप्यं यदुह्यते तद्वाचिस्थानिमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात्किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः। वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् । अस्मिन्नव ग्रन्थे श्लो० 720. रोषस्य वाहनं रोषवाहणम् । रोषाश्रयमतिरुष्टमित्यर्थः । णत्वम् । माघे-XII. 34. आगच्छतोऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः । 48
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy