SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्त्रीमत्ययाकरणम् भट्टिकाव्ये-V. 22. नैवेन्द्राणी न रुद्राणी न मनावी न रोहिणी । वरुणानी न नामायी तस्याः सीमन्तिनी समा ॥ 111 ॥ ४९५ । मनोरौ वा । (४. १. ३८) मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा। ताभ्यां सन्नियोगशिष्टो ङीय च । मनोः स्त्री मनायी मनावी मनुः । अस्मिन्नव ग्रन्थे श्लो० 111. मनावी । ४९६ । वर्णादनुदात्तातोपधात्तो नः । (४. १. ३९) इति विकल्पः डीप, तकारस्य च नकारः । माधे-XVII. 18. विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः । क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजित् गज इव गैरिकारुणः ।। 112 ॥ लोहिनी लोहिता । किरातार्जुनीये--V. 31. नीतोच्छ्रायं मुहुरशिशिररश्मेरुलै रानीलाभैविरचितपरभागा रलैः । ज्योत्स्नाशकामिह वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभितिच्छाया ।। 113 ॥ श्येनी श्वेतवर्णा । 'विशदश्येतपाण्डरा' I. iv. 12. इत्यमरः । श्येतशब्दात् डीप । तकारस्य च नकारः । अस्मिन्नेव ग्रन्थे श्लो० 111. रोहिणी चन्द्रभार्या । रोहितशब्दात् ङीप् , तकारस्य नकारश्च । वा० । पिशङ्गादुपसङ्ख्यानम् । (2456)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy