SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३४८ पाणिनिसूत्रव्याख्या नैषधे--VI. 80. नैनं त्यज क्षीरधिमन्थनाद्यै रस्यानुजायोद्गमितामरैः श्रीः । अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥ 1155 ॥ इक्षुरस एवोदकं यस्य तम् इक्षुरसोदं नामाब्धिम् । संज्ञायामुदकस्योदादेशः । बम्पूरामायणे-VI. 15. पश्येदानीमुदधिपरिखापालिता कुत्र लङ्का __वाचातीतः क नु वनचरादागतो दुर्विपाकः । कतुं नक्तञ्चरपरिभवं कापि मायेति शके जाता सीता धरणितनया जानकी मैथिलीति ॥ 1156 ॥ उदकानि धोयन्तेऽस्मिन्नित्युदधिः समुद्रः। 'कर्मण्यधिकरणे च' (सू. 3271) इति किः। ९९६ । पेषवासवाहनधिषु च । (६. ३. ५८) उदपेष पिनष्टि । उदवासः उदवाहनः उदधिः घटः । समुद्रे तु पूर्वेण सिद्धम् । कुमारसंभवे-V. 26. निमाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरूदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः । पुरो वियुक्त मिथुने कृपावती ।। 1157 ।। उदके वासः उदवासः । उदादेशः । किरातार्जुनीवे--XIV. 36. अनादरोपात्तधृतैकसायक जयेऽनुकूले सुहृदीव सस्पृहम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy