SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिप्रकरणम् ३४५ ९९० । पादस्य पदाज्यातिगोपहतेषु । (६. ३. ५२) एघूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां च ' ( उ. सू. 570) इति इण्प्रत्ययः । आजिः संग्रामः । आतिः पक्षी। 'पादे च। (उ. सू. 571) इति इणप्रत्ययः । पदातिः । पदगः । पदोपहतः । रघुवंशे-VII. 37. पतिः पदाति रथिनं रथेशः तुरङ्गसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ।। 1148 !! पादाभ्यामवतीति पदातिः । अनेन पदादेशः । चम्पूभारते-II. 110. द्विरदं द्विरदस्तुरंग तुरगो रथिक रथिकः पदगं पदगः । इतरेतरमेत्य रण विदधे दिवि नारदविस्मयनाकतरुम् ।। 1149 ।। पादस्य पदादेशः । भट्टिकाव्ये---III. 41. वाचंयमान् स्थण्डिलशाविनश्च युयुक्षमाणाननिशं मुमुक्षून् । अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाजमुनि सशिष्यम् ।। 1160 ।। पादाभ्यां गच्छन्तीति पद्गाः । 'अन्येष्वपि दृश्यते' (स्. 3011) इति डः । 'हिमकाषिहतिषु च' (सू. 992) इति चकारात् पदित्यादेशः । पदिति योगविभागाद्वा पद् इत्यादेशे पद् इति ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy