SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ॥ अथ समासाश्रयविधिप्रकरणम् || ९८५ । वरूपकल्पचेलड्ब्रुयगोत्रमतहतेषु योऽनेकाचो ह्रखः । ( ६. ३. ४३ ) 1 भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो हखः स्यात् वरूपकल्पयत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । तरप्तमपौघसंज्ञकौ । ब्राह्मणितरा ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली | ब्राह्मणिब्रुचा । ब्राह्मणिगोत्रा इत्यादि । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा । अस्मिन्नेव ग्रन्थे श्लो० 15. ईषदसमाप्तां पाश पाशीकल्पाम् पाशबन्धनसदृशीम् ।' बह्वादिभ्यश्च ' ( सू. 503 ) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् अनेन खो न भवति । माघे—VII. 68. मुहुरिति वनविभ्रमाभिषङ्गा दत्तमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः || 1144 | 1 अतिशयेन मृदुः मृदुतरा । ' वोतो गुणवचनात् ' ( सु. 502 ) इति ङीषि अतिशयेन मृद्वी मृद्वितरा इति स्यात् । ' तसिल' (सू. 836 ) इति स्त्रियाः पुंवद्भावः । प्रभातकल्पा । प्रियतमा इत्यादि । ९८७ । उगितश्च । ( ६. ३.४५ ) . उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा | ह्रस्वाभावपक्षे तु ' तसिलादिषु ' ( सू. 836 ) इति पुंवत् । विद्वत्तरा । ९८८ | हृदयस्य हृल्लेखयदण्लासेषु । ( ६. ३.५० )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy