SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९८ म. VI.. पाणिनिसूत्रव्याख्या मैमीमुपावीपयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः । गन्धर्वबध्यः तुरमध्वरीणं 'तत्काण्डनालेकधुरीणवीणः ॥ 1000 || कलिप्रियस्य प्रियकहस्य नारदस्य | बहुव्रीहौ प्रियशब्दस्यं परनिपातः । कुमारसंभव - IV. 38. परलोक विधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः । निवपे: सहकारमञ्जरी: प्रियचूतप्रसवो हि ते सखा | 1001 | प्रियश्चूतप्रसवो यस्य सः प्रियवृत प्रसवः । अस्मिन्नेव ग्रन्थे श्लो० 948. प्रियधर्म | ८९९ । निष्ठा । ( २. २.३६ ) निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः । वा० ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या । (1422.) सारङ्गजग्घी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः । भट्टिकाव्ये - V. 39. सुखजातस्सुरापीतो नृजग्धौ माल्यधारयः । afees स्त्रियो दीव्यमारब्धा बलिविग्रहम् || 1002 | सुखजातः । ९०० । वाहिताग्न्यादिषु । (२२.३७ ) महितामिः अग्न्याहितः । आहिताग्न्यादिः - २. १२.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy