SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् नयत्ययुग्मच्छ्दगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ 966 || अयुग्मच्छदस्य गन्ध इव गन्धो यस्यासावयुग्मच्छदगन्धिः । ' सप्तम्युपमान ' इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च । अनेन इत्वम् । I ८७७ । पादस्य लोपोsहस्त्यादिभ्यः (५ ४ हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । हस्तिपाद: कुसूलपाद: । अत्र न । हस्त्यादि : - ५ ५८. नैषधे - III. 68. ८७८ | कुम्भपदीषु च । ( ५. ४. १३९ ) कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । कुम्भपद्यादि : -- ५. ५९. अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः । यत्रान्धकारः किल चेतसोऽपि १३८ ) जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ 967 ॥ एकः पादो यस्यामित्येकपदी । एकपादसंचारयोग्यो मार्गः । २७९ ८७९ । संख्यासुपूर्वस्य । ( ५. ४. १४० ) पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । ' पादोऽन्यतरस्याम् ' ( सू. 457 ) इति स्त्रियां विकल्पानीकारः । रघुवंशे — XV. 96. अस्मिन्नेव ग्रन्थे लो० 923. सहस्रं पादा रश्मयोऽछ्रयश्च यस्य स सहस्रपात् सूर्यः । तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्म त्रिपादिव || 968 ॥ त्रयः पादा यस्यासौ त्रिपात् । अकारलोपः समासान्तः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy