SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् धनुषा सह वर्तत इति सधनुः । तस्य सधनुषः पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 232. अघिज्यं धनुर्यस्याधिज्यधन्वा । अनादेशः । अनघराघवे-II. 68. ग.-भगवन्कौशिक पश्य पुरस्तादायें धृतधनुषि ।। 954 || अनङ् न । ८७१ । वा संज्ञायाम् । (५. ४. १३३) शतधन्वा शतधनुः । कुमारसंभवे-~-II. 64. अथ स ललितयोषिद्भलताचारुशृङ्गं रतिवलयपदाके चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ 955 ।। पुष्पं धनुर्यस्य सः पुष्पधन्वा । कामः । 'पुष्पधन्वा रतिपतिः' I, i. 26. इत्यमरः । अनादेशः । माघे-IX. 41. अवकाशमाशु हृदये मुशां गमिते विकासमुदयाच्छशिनः । कुमुदे च पुष्पधनुषो धनुष श्वलितः शिलीमुखगणोऽलभत ॥ 956 ॥ पुष्पं धनुर्यस्य स पुष्पधनुः । तस्य पुष्पधनुषः । अनङ् न । अस्मिन्नेव ग्रन्थे श्लो० 950. क्षेम धनुर्यस्य तं क्षेमधन्वानम् । तन्नामानं पुत्रम् । अनडादेशः । किरातार्जुनीये-XV. 46. विफलीकृतयनस्य क्षतबाणस्य शम्भुना । गाण्डीपधन्वनः खेभ्यो निश्वकाम हुताशनः ॥-967 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy