SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरणम् कुमारसंभवे-VI. 46. सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्य गन्धवद्धन्धमादनम् ।। 884 इक्षुच्छायानिषादिन्य इतिवत् । ८२६ । सभा राजामनुष्यपूर्वा ( २. ४. २३) राजपर्यायपूर्वोऽमनुष्यपूर्वश्व सभान्तस्तत्पुरुषो नपुंसक स्यात् । इनसभम् । ईश्वरसभम् । पर्यायस्यैवेष्यते । नेह । राजसभा । अमनुष्यशब्दो रूब्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् । अस्मिन्नेव ग्रन्थे श्लो० 449. राक्षससभम् । ८२७ । अशाला च (२. ४. २४) संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीदं स्यात् । स्त्रीसमें स्त्रीसंघात इत्यर्थः । अशाला किम् । धर्मसभा । धर्मशालेत्यर्थः । माघे-XIII. 14. इतरानपि क्षितिभुजोऽनुजन्मनः ___ प्रमनाः प्रमोदपरिफुल्लचक्षुषः। स यथोचितं जनसभाजनोचितः प्रसभोद्धतासुरसभोऽसभाजयत् ॥ 885 ॥ असुरसभा। ८२८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२. ४. २५) एतदन्तस्तत्पुरुषः क्लीव वा स्यात् । ब्राह्मणसेनं ब्राह्मण सेना ! यवसुरं यवसुरा । कुड्यच्छाय कुड्यच्छाया । गोशालं गोशाला । श्वनिशम् श्वनिशा । माघे--X. 23. दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy