SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ঠাৎ नैषधे-1. 106. लताबलालास्यकलागुरुस्तर पसुनगन्धोत्करपश्यतोहरः। असेवता, मधुगन्धवारिणि पणीतलीलाप्लवनो वनानिलः ॥ 594 ।। पश्यतोहरः । पश्यन्तमनादृत्य हरः । प्रसह्यापहर्तेत्यर्थः । अनादरे षष्ठी। 'वाग्दिग' (सू. 979 ) इत्यलुक् । माघे—XV. 34. मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः । अस्य वनशुन इवापचितिः परिभाव एष भवतां भुवोऽधिपाः ।। 595 ।। भवतां मिषतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । माघे-XIII. 46. अतियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः । न विवेद यः सततमेनमीक्षते न वितृष्णतां ब्रजति खल्वसावपि ।। 596 ।। चक्षुषः सतृषः । चक्षुषि सतृषि सति । तदनादृत्येत्यर्थः । ६३६ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२. ३. ३९) एतैः सप्तभियोगे षष्ठीसप्तम्यौ स्तः । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः । भट्रिकाव्ये-VIII. 114. वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा । जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः ।। 597 ।। वानरेषु स्वामी । वानराणामीश्वरः । नरेपधिपतेः नराणामिन्द्रस्य । विकल्पात्सप्तमी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy