SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ कुमारसम्भवे - V. 34. अपि त्वदावर्जित वारिसंभृतं प्रचालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ 581 ॥ दन्तवाससा । तृतीया । तुलां सादृश्यम् । तुलाशब्दस्य सादृश्यवाचित्वात् तद्योगे अतुलोपमाभ्यामिति न तृतीयाप्रतिषेधः । अत्र सूत्रे सदृशवाचिन एव ग्रहणात् । चम्पूभारते – IV. 29. कारकप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो॰ 283. शम्भुना, तृतीया । स्फुटोपमं, स्फुटमुपमा यस्य तम् | सादृश्यवाचित्वात् तृतीया । राज्ञा तुलां सादृश्यम् । दिग्धे सन्तमसैः सान्द्रैर्दिशापदिशचत्वरे । सर्वाः प्रजास्तदा राज्ञा समारुक्षन् दृशा तुलाम् || 582 ।। ६३१ | चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । (२. ३.७३ ) एतदर्थैर्योगे चतुर्थी वा स्यात्, पक्षे षष्ठी आशिषि । आयुष्यं चिरं जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति । 19 भट्टिकाव्ये - VIII. 181. राघवाभ्यां शिवं दूतस्तयोर हमिति ब्रुवन् । हितो भनज्मि रामस्य कः किं ब्रूतेऽत्र राक्षसः || 588 ॥ राघवाभ्यां शिवमस्तु | रामस्य हितः । षष्ठीचतुर्थ्यो । माघे— XVI. 41. १४५ कुशलं खलु तुभ्यमेव त द्वचनं कृष्ण यदभ्यधामहम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy