SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४२ नैषधे - VI. 99. साधोरपि स्वः खलु गामिताधोगमी न तु स्वगमितः प्रयाणे । इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न || 569 || स्व गमी । स्वर्गं गमिष्यति । पूर्ववण्णिनिः । रघुवंशे - XVII. 8. तदत्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः || 570 सङ्ग्रामयायिनः संग्रामं यास्यतः । आवश्यकार्थे णिनिः । नैषधे – V. 92. पाणिनिसूत्रव्याख्या दानपात्रमधमर्णमिहैक ग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैयदि कर्तुं पारलौकिक कुसीदमसीदत् ॥ 571 | कोटिगुणितं दायि । आघमर्थे णिनिः । ६२९ । कृत्यानां कर्तरि वा । (२.३. ७१ ) षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् । गेयो माणचकः सान्नाम् । ' भव्यगेय' (सू. 2894 ) इति कर्तरि यद्विधानात् अनमिहितं कर्म । भट्टिकाव्ये - VI. 48. लभ्या कथं नु वैदेही शक्यो द्रष्टुं कथं हरिः । कथं वियोगश्च गद्यमेतत्त्वया मम ॥ 672 ॥ f एतत्सर्वं त्वया मम गद्यं वाच्यम् । त्वयेति कर्तरि तृतीया । ममेति शेषत्वविवक्षायां कर्मणि षष्ठी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy