SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३२ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 446. असौ हनूमान् दधदभिज्ञानम् । लप्रयोग प्रतिषेधाद्वितीया । ल इति शानन्नादयो गृहीताः । दारुण कर्म चिकीर्षुः। उकारप्रश्लेषात्षष्ठयाः प्रतिषेधः । भर्तुरन्तिकं गायुकोऽपि गमनशीलोऽपि । उकप्रयोगे षष्ठ्याः प्रतिषेधः । भट्टिकाव्ये-VIII. 128. कृत्वा कर्म यथोद्दिष्टं पूर्वकार्याविरोधि यः । करोत्यभ्यधिकं कृत्यं तमाहुर्दतमुतमम् ॥ 529 | कृत्वेत्यव्ययप्रयोगे षष्ठयाः प्रतिषेधः । भट्टिकाव्ये-VIII. 129. वैदेही दृष्टवान् कर्म कृत्वान्यैरपि दुष्करम् । यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः ॥ 530 ।। अहमद्य वैदेहीं दृष्टवान् । निष्ठाप्रयोगे प्रतिषेधः । अन्यैरपि दुष्करम् । खल्पयोगे प्रतिषेधः । यश उपादाता। तृन्नन्तप्रयोगे प्रतिषेधः । नैषधे-II. 6. दधतो बहुशैवलक्ष्मता धृतरुद्राक्षमधुव्रतं खगः । सनलस्य ययौ कर पुनः सरसः कोकनदभ्रमादिव ॥ 531 ॥ बहुशैवलक्ष्मतां दधतः । लटः शतृप्रत्ययः । लप्रयोगे प्रतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 327. मध्यं दधाना । लटः शानच् । पूर्ववत्प्रतिषेधः । भट्टिकाव्ये-II. 21. विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षतात्मा । अध्यापिपदाधिसुतो यथावनिघातयिष्यन् युधि यातुधानान् ॥ 532 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy