SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १२७ दुःखस्य । कर्मणि षप्टी। शेषत्वविवक्षायामेव षष्ठीविधानात् इह तदविवक्षायां आमोदमिति कर्मणि द्वितीया । तनोः । कर्मणि षष्ठी । ६२४ । उभयप्राप्ती कर्मणि । (२. ३. ६६) उभवोः कर्तृकर्मणोः प्रातिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यों गवां दोहोऽगोपेन । गवामिति कर्मणि षष्ठी । दोहः कृत्प्रत्ययः । अगोपेन । कर्तरि तृतीया ) भट्टिकाव्ये--VIII. 125. पुरः प्रवेशमाश्चर्य बुध्वा शाखामृगेण सा । चूडामणिमभिज्ञानं ददौ रामस्य संमतम् ॥ 514 || शाखामृगेण कळ । पुरः । कर्मणि षष्ठी । प्रवेशम् । कृत् । भट्टिकाव्ये-IX. 127. पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः । क्षमिष्यते दशास्येन कत्येयं तव दुर्मतिः ॥ 515 ॥ पुंसा रामेण । कर्तरि तृतीया । बन्धूनां खरादीनाम् । कर्मणि षष्ठी । वधः । कृत् । वा० । स्त्रीप्रत्यययोरकाकारयो यं नियमः । ( 1513.) भेदिका बिभित्सा वा रुद्रस्य जगतः । वा० । शेषे विभाषा । ( 1513.) स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिहरेहरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्यणाचार्थस्य वा । अनवराघवे-II. 50. तेजोमयं तमोमयमन्यतरस्यां तदेव दिक्चक्रम् । किमपि विचित्रा धात्रा सृष्टिरिय भुवनकोशस्य ॥ 516 ।। भुवनकोशस्य ब्रह्माण्डस्य । कर्मणि षष्ठी । धात्रा । वैभाषिकी कर्तरि तृतीया । सृष्टिः । स्त्रियां क्तिन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy