SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०० पाणिनिसूत्रव्याख्या राघवे – II. 87. असौ सीरध्वजो राजा यो देवाद मणेरपि । अध्यैष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम् || 414 || सीरध्वज जनकः घुमणेः सूर्यात् । पंचमी । अध्यैष्ट अधीतवान् । इङ -अध्ययने लुङ् । ब्रह्मसंहितां वेदान्तम् । याज्ञवल्क्यस्य मुखेन । याज्ञवश्वयेन सूर्यादीतम् । ततो जनकेन । सूर्यप्रशिष्योऽयमित्यर्थः । 1 ५९३ । जनिकर्तुः प्रकृतिः । (१.४.३० ) जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते । अस्मिन्नव ग्रन्थे ० 413. वायोः प्रकृतिभूताज्जात उत्पन्नः । ५९४ । भुवः प्रभवः । (१. ४. ३१ ) मूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशत इत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 418. आदित्यात्प्रभवन्तीमिव तेजसा सूर्यात्प्रादुर्भवन्तीमिव स्थिताम् । आदित्यस्यापादानत्वम् । वा० । स्यलोपे कर्मण्यधिकरणे च । ( 14741475.) प्रासादात्प्रेक्षते । प्रासादमारुह्य प्रेक्षत इत्यर्थः । आसनात्प्रेक्षते । आसन उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिहति श्वशुरं वीक्ष्येत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 387. तस्मात् तमकम्पनं वीक्ष्य तेपे लज्जितम् । माघे - XVIII 51. आक्रम्यैकामग्रपादेन जङ्घामन्यामुचैराददानः करेण । सास्थिखानं दारुवद्दारुणात्मा केचिन्मध्यात्पाटयामास दन्ती ॥ 415 || मध्यात्पाटयामास । मध्यं विभज्य पाटयामास ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy