________________
४२ ]
मष्टम. सग [ नेमिनाथमहाकाध्यम् सुखयति स्म न क तपतापहृज्जलदकालभव शिशिरानिलः । परिवहन्नवकाचनकेतकीशुभरजोमरजोज्ज्वलमोरभम् ॥३६॥ स्मरपते पटहानिव वारिदान् निनदतोऽय निगम्य विलासिनः । समदना न्यपतन्नवकामिनीचरणयो रणयोगविदोऽपि हि ॥३७॥ जयति कापि हि शक्तिरनीहशी कपटिनोऽरय मनोमवयोगिन । पटुहपीकमना अपि यह शो न हि शृणोति न पश्यति वेत्ति नो॥३॥ क्षरददभ्रजला कलगजिता सचपला चपलानिलनोदिता । दिवि चचाल नवाम्बुदमण्डली गजघटेव मनोभवभूपते. ॥६॥ रविमल विमल रचयन्नथो सकमल कमल परिपूतयन् । सुखयितुं किल नायमुपागतो धवलरुग्जलदो जलदात्यय. ॥४०॥ समधुपा. स्मितपकजपक्तयो चिरे रुचिरेपु सर स्वय । नवशरच्छियमीक्षितुमातनोदिव दृग शतधा जलदेवता ॥४१॥ आप. प्रसेदु कलमा विपेचुहसाञ्चुकूजुर्जहसु कजानि । सम्भूय सानन्दमिवावतरु शरद्गुणा सर्वजलाशयेपु ।।४।। रसविमुक्तविलोलपयोधरा हसितकाशलसत्पलितांकिता । क्षरितपवित्रमशालिकणद्विजा जयति कापि गरजरती क्षिती ॥४३॥ मदोत्कटा विदार्य भूतल वृषा क्षिपन्ति यत्र मन्तके रजो निजे । अयुक्तयुक्तकृत्यसविचारणा विदन्ति किं कदा मदान्धबुद्धय.॥४४॥ विजहरुद्धतता स्मयसम्पदो जलधिगा. गिखिनश्च धनात्यये । गतवतीष्टजने वलपुप्टिदे भवति कस्य न दर्पधनच्युति ! ? ॥४५॥ अनारत त्यक्तजलौघपाण्डुभिव्यप्तिा समूहै परित पयोमुचाम् । द्या वीक्षमाणोऽत्र जहर्प को नहि श्रीखण्डलिप्तागलतामिवागनाम्।४६। कम्पयन्नथ दरिद्रकुलान्युदण्डवात इव पुष्पवनानि । वह्निकोणपरिवर्तितभास्वन्मण्डलो हिममय समयोऽयात् ॥४७॥
४ यशो. मा; वि मा जलदात्यये ५ यशो मा., वि मा दपंघनच्युति