SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये कलाकल्लोलिनीशैलस्यायनन्दिनामधेयस्याचार्यवर्यस्योपकण्ठे कण्ठीरवकिशोराकृतिरयं प्रत्यहन्ग्रहपरिहाराय परिकलितसिद्धनमस्यः सिद्धमातृकाप्रसिद्धां सरस्वती परिशीलयामास । लेभे जीवंधरो वाणी क्रमनिर्जितसिन्धुरः । नमस्यत गुमं सोऽयं मनस्यमितभक्तितः ॥१०६॥ इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पृकाव्ये सरस्वतीलम्भो नाम प्रथमो लम्भः। स्थानलेन प्रसिद्धः, आर्यनन्दीति नामधेयं नाम यस्य तस्य आचार्यवर्यस्य सूरिश्रेष्ठस्य, उपकण्ठे समापे, प्रत्यूहव्यूहस्य विघ्नसमूहस्य परिहारो निवारणं तस्मै, परिकलिता कृता सिद्धनमस्या सिद्धपरमेष्टिपूजा येन तथाभूतः लन् , 'पूजा नमश्यापचितिः सपर्या चाहणा समा' इत्यमरः, सिद्धमातृकया अनादिवर्णपरम्परया प्रसिद्धा प्रख्याता ताम्, सरस्वती परिशीलयामास, परिशीलनं चकार, सरस्वत्या अभ्यासमकादिति भावः । लेभे-क्रमेण गत्या निर्जितः पराजितः सिन्धुरो हस्ती येन सः, सोऽयं जीवन्धरः, वाणी सरस्वतीम्, लेभे, प्राप्तवान्, मनसि चित्ते, अमितभक्तितोऽऽसीमभवत्या, गुरुम्, आर्यनन्दिनम् अनमस्यत नमश्चकार 'नमो वरिवमश्चित्रङः क्यच' इति क्यच् ॥ १०६॥ इति महाकविश्वासी हरिचन्द्रश्चेति महाकविहरिचन्द्रस्तेन विरचिते सुविहिते चम्पुजीबंधरे जीवन्धरचम्पूनाम सन्दर्भ सरस्वत्या लम्भः प्राप्तिर्यस्मिस्तथाभूतो नाम प्रथमो लम्भः प्रथमप्रकरणम्, ममातः । इतिशब्दः समाप्त्यर्थवाचकः । इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे जीवन्धरचम्पूकाव्ये सरस्वतीलम्भो नाम प्रथमो लम्भः ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy