SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्भः ३३ पुत्रस्य वर्धनविधौ विजहाहि चिन्तां संवर्धयिष्यति सुतं तव कश्चिनम् । चन्द्रश्चकोरमिव चूततरुर्यथा वा वाले पिकं कमलिनीविसरो मरालम् ||६|| तदात्व एवात्र मृतं तनूजं विसृज्य गन्धोत्कटवैश्यनाथः । योगीन्द्रवाक्यस्मरणेन सूनुं गवेषयन्लोचनगोचरोऽभून् ||१०|| तं दृष्ट्वा देवतावाक्यं प्रमाणं निश्चिकाय सा । संवादेन हि सर्वेषां प्रामाण्यमवगम्यते ॥ ६१ ॥ ततो महीकान्तकान्ता, निजान्तरङ्गरविकान्तजाज्वल्यमानप्रियविप्रयोगशो कानलकीलाकलापं तनयसुन्दरवदनचन्दिरालोकेन शमयिष्यन्ती, सरोजलोद्धृतशफरीब विना शिशुना स्थातुं क्षणमपारयन्त्यपि देवतावचनजनितविस्रम्भभावेन गत्यन्तराभावेन च गन्धोत्कटश्रेष्ठिसमर्पणाय कथं कथमप्यनुमतिमापाद्यमाना, स्वभावत एव समुद्रमपि निर्निद्राणतेजसां पुत्रं पित्रीयमुद्रया समुद्रं विधाय, विधाय च पुरतो, देवतया सह सहसान्तरधात् । पितृवनवनमध्ये बालसूर्यप्रकाशं सुतमतिवितताभ्यां लोचनाभ्यां पिबन् सः । पुत्रस्येति - पुत्रस्य सुतस्य वर्धनविधौ संरक्षणकार्ये, चिन्तामू, विजहाहि विमुञ्च, 'ओहाक् त्यागे' इत्यस्य लोटि मध्यमपुरुषैकवचने रूपम् 'आ च हौं' इत्यात्वम्, तब भवत्याः, एनं वर्तमानम्, सुतं पुत्रम्, कश्चित् कोऽपि नरः, चन्द्रः शशी, चकोरमिव जीवं जीवमिव यथा वा येन प्रकारेण वा, चूततरुराम्रवृक्षः, बालमदीर्घायुषम्, पिक कोकिलम्, कमलिनीविसरः पद्मिनीसमूहः, मरालं हंसम्, वा, संवर्धयिष्यति पालयिष्यति । मालोपमा ॥ ८६ ॥ तदात्व इति - तदात्व एव तस्मिन्नेव काले अत्र पितृवने, मृतं परासुम्, तनूजं सुतम्, विसृज्य त्यक्त्वा, गन्धोत्कटवैश्यनाथो गन्धोत्कटनाम वैश्यपतिः, योगीन्द्रस्य महामुनेर्वाक्यस्य वचनस्य स्मरणमाध्यानं तेन, सूनुं जीवितमपरं पुत्रम्, गवेपयन्नन्वेपयन्, लोचनगोचरो दृष्टिविषयः, अभूत् ॥ १० ॥ तं दृष्ट्वेति—तं पूर्वोक्तं गन्धोत्कटम्, दृष्ट्वा चिलोक्य, सा विजया देवतावाक्यं देववचनम् 'संवर्धयिष्यति सुतं तव कश्चिदेनम्' इति रूपमिति यावत् प्रमाणं सत्यम्, निश्विकाय निश्चितवती 'विभाषा चे:' इति विकल्पेन कुत्वम्, हि यतः, संवादेनानुकूलसमर्थनेन, सर्वेषां निखिलानाम्, प्रामाण्यं याथार्थ्यम्, अवगम्यते ज्ञायते । अर्थान्तरन्यासः ॥ ६१ ॥ तत इति -- ततस्तदनन्तरम्, महीकान्तस्य भूवल्लभस्य कान्ता प्रेयसी, विजयेति यावत्, निजान्तरङ्गमेव स्वकीयान्तःकरणमेव रविकान्तः सूर्यकान्तोपलस्तस्मिन् जाज्वल्यमानः पुनः पुनरतिशयेन वा ज्वलन् यः प्रियविप्रयोगशोक एव वल्लभविप्रलम्भविषाद एवानलो वह्निस्तस्य कीलाकलापं ज्वालासमूहम्, तनयस्य सुतस्य सुन्दरवदनमेव सुभगास्यमेव चन्दिरश्चन्द्रस्तस्यालोकनं दर्शनं तेन, 'चन्दिरोऽनेकपे चन्द्रे' इति मेदिनी, शमयिष्यन्ती शान्तं करिष्यन्ती, सरोजलात्कासारनीरादुद्धृता समुद्धृत्य बहिनता शफरीव मत्सीव, शिशुना पुत्रेण, विनान्तरेण, क्षणमप्यल्पकालपर्यन्तमपि, स्थातुं निवसितुम्, अपारयन्त्यपि असमर्थापि, देवतावचनेन देवीवाक्येन जनितः समुत्पादितो यो विस्रम्भभावो विश्वासपरिणामस्तेन, गत्यन्तराभावेन च साधनान्तराभावेन च, गन्धोत्कट श्रेष्ठिने समर्पण प्रदानं तस्मै, कथं कथमपि केनापि प्रकारेण, अनुमतिमनुमोदनम्, आपाद्यमाना प्रापयन्ती, स्वभावत एव निसर्गेणैव, निर्निद्राणानि स्फुरन्ति च तानि तेजांसि ज्योतींषि तेषाम्, समुद्रमपि सागरमपि, पुत्रं तनूजम् पितुरियं पित्रीया सा चासौ मुद्रा च तया पितुराङ्गुलीन, समुद्रं मुद्रया सहितम्, विधाय कृत्वा, पुरतोऽग्रे विधाय च कृत्वा च देवतया देव्या सह सार्धम्, सहसा झटिति, अन्तरधात् तिरोहिताभूत् । पितृवनवनमध्य इति --- पितृवनं श्मसानं तस्य वनस्य गहनस्य मध्ये, बालसूर्यस्येव प्रातःप्रभाकर
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy