SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २8 प्रथमो लम्भः दौवारिकस्य वचनादुपरोधकृत्य माकण्य कर्णपरुपं पुरुपाधिराजः । रोपेण पितशुचा स हि धीर धीर: पञ्चाननासनतलादुदतिष्ठतायम ॥६॥ तावत्प्रतिष्ठमानं प्राणकान्तमनुमृत्य कृतप्रयाणा प्राणान्परिमागिंतुमिव भूमौ निपतितां तां निर्भरंग भरतान्तामालोक्य पुनर्व्यवर्तिष्ट नरवरिष्ठः ।। प्राबोधयञ्च पुथ्वीशः कथंचिल्लब्धचंतनाम । देवी ज्ञानं हि दुःखाधितरणे तरणीयते ।।७७॥ शम्पानिभा संपदिदं शरीरं चलं प्रभुत्वं जलबुद्बुढ़ाभम् । तारुण्यमारण्यसरित्सकाशं क्षयिष्णुनाशी हि न शोचनीयः ।।७।। संयुक्तयोवियोगो हि संध्याचन्द्रमसोरिव । रक्तयोरपि दंपत्योर्भविता नियतेर्वशात ९il बन्धुत्वं शत्रुभूयं च कल्पनाशिल्पिनिर्मितम् । अनादी सति संसारे तवयं कस्य केन न ।।८।। धानुष्काणां धनुर्धारिणां करेयु हमनेघु कलितानि तानि यानि धपि बापास्तेषां टंकारोऽध्यकशब्दस्तेन कर्क शः कठोरस्तेन, प्रतिध्वनितं प्रतिशब्दितंकुलाचलानां कुलगिरीणां' कन्दरकुलं गह्वरगणो येन तेन, कोलाहलेन कलकलशब्देन, भरितं पूर्णम्, तस्य काष्ठाङ्गारस्य, बलं सैन्यम्, भूपतिभवनं नरेन्द्रमन्दिरम, उपरुरोध आवृणुते स्म । दोवारिकस्येति-धीरवारोऽतिशयधैर्यशाली, अयं सः पूर्वोक्तः, पुरुषाधिराजो नराधिपः, द्वारे भयो दौवारिको हारपालकस्तस्य, वचनात् कथनात्, कर्णपरुपं श्रवणकठोरम्, उपरोध आवरणमेव कृत्यं कार्यम्, आकर्ण्य श्रुत्वा, चूपिता शुरु येन तेन दूरीकृतशोऽन, रोपेण क्रोधेन, पञ्चाननासनतलात् सिंहासन पृष्टात् , उदतिष्ठत उत्तिष्ठते स्म ॥ ७६॥ तावदिति-तावत् तावता कालेन, प्रतिष्टमानं प्रयान्तम्, प्राणकान्तम् वल्लभम्, अनुसत्यानुगम्य, कृतं प्रयागं प्रस्थानं यैस्तान् , प्राणान् जीवितानि, परिमार्गिनुमन्वेष्टुमिव, भूमा पृथिव्याम्, निपतितां स्वलिताम्, निर्भरेण सातिशयेन गर्भमरेण दौहृदभरेण तान्ता दुःखीभूताम्, तां कान्तां वल्लभान, आलोक्य दृष्ट्वा, नरवरिष्ट नृपः, पुनर्भूयः, न्यबतिष्ट प्रत्याववृते। प्राबोधयञ्चेति--पृथ्वीशो महीकान्तः, कथञ्चित् केनापि प्रकारेण, लब्धा प्राप्ता चेतना संज्ञा यया तां लब्बचेतनाम्, देवीं राज्ञीम, प्राबोधनच्च सम्बोधयामास च, हि यतः, ज्ञानं बांधः, दुःखमेवा ब्धिः सागरस्तस्य तरणे प्लबने, तरणिरियावरतीति तरणीयते नौकायते ॥ ७७ ॥ शम्पानिभति-संपत् सम्पत्तिः, शम्पानिमा तडित्सदृशी, 'शम्पा सौदामिनी तडित्' इति 'धनञ्जयः, इदं शरीरम्, अयं विग्रहः 'शरीरं वर्म विग्रहः' इत्यमरः, चलं चपलम्, प्रभुत्वमैश्वर्यम, जलबुद्बुदाभं जलस्फोटसदृशम्, तारुण्यं यौवनम्, आरण्य सरिरका गं वनापगासदृशम्, अस्तीति शेपः, हि निश्चयेन क्षयिष्णो नश्वरस्य नाशो विनाशः, शोचनीयः शुग्भाजनं, न भवति भावः ॥ ७८ ॥ संयुक्तयारिति-हि निश्चयेन, संध्या च चन्द्रमाश्चेति सन्ध्याचन्द्रमसौ तयोरिव पितृप्रसूशशिनोरिव, संयुक्तयोः संयोग प्राप्तयोः, रक्तयोः परस्परानुरागसहितयोः, दम्पत्योः, जायाश्च पतिश्चेति दम्पती तयोः 'जायया जम्भावो दम्भावो निपात्यते' वियोगो विरहः नियतेदेवस्य वशात् परतन्त्रत्वात् , भविता भविष्यति ।। ७६ ॥ वन्धुत्व मिति-अन्धूनां सहोदराणाम्, बन्धुवं भ्रातृत्त्रं, शत्रुभूयं शत्रुत्वं च, कल्पनैव शिल्पी कार्यकरस्तेन निर्मितम्, अस्तीति शेषः । संसारे भुवने, अनादावादिरहिते सति, तयोर्द्वन्द्वं युग्मं बन्धुत्वं शत्रुत्यन, कस्य जनस्य केन जनेन सह न, अपितु सर्वस्य सर्वणव सह वर्तत इति भावः ।। ८० ॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy