SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ २७ प्रथमो लम्भः तत्र राजनयराजितचित्तो धर्मदत्तसचिवस्तमृचिवान् । स्वामिभक्तिपरिवर्धितवाणीमात्मजीवितविनाशकृपाणीम् ।। ६६ ॥ प्राणा नृपालाः सकलप्रजानां यत्तेपु सत्स्वेव च जीवनानि । भूपेषु या द्रोहविधानचिन्ता सर्वप्रजास्वेव कृता भवित्री ।। ७० ।। समस्तपातकानां हि सामानाधिकरण्यभूः । राजधृगेव भविता सर्वद्रोहित्वसंभवात् ।। ७१ ।। राज्ञो विरोधो वंशस्य विनाशाय भविष्यति । ध्वान्तं राजविरोधेन सर्वत्र हि निरस्यते ।। ७२ ॥ हाय लोकस्य धराधिनाथः क्लिभाति नित्यं परिपालनेन । छायाश्रितानां परिपालनाय तय॑थाप्नोति रविप्रतापम् ।। ७३ ।। इति नीतिविदां वरिष्ठस्य सचिवप्रेप्टस्य वचनं पित्तोपहत इव मधुरतरक्षीरं राजद्रोहगुरुद्रोहादिपु बद्धान्तरङ्गः काष्ठाङ्गारः स्वहितं मनसि न चकार, चकार च विकारजनितविद्वेषम् । तत्र राजनयेति-तत्र सभायाम्, राजनयेन राजनीन्या राजितं शोभितं चित्तं मनो यस्य सः, धर्मदत्तश्चासौ सचिवश्चेति धर्मदत्तसचिवः, धर्मदत्तामान्यः, तं काष्टाङ्गारम्, आत्मनः स्वस्य जीवितं जीवनमान्मजीवितं तस्य विनाशो विध्वंसस्तस्मै कृपाणी छुरिका ताम्, स्वामिनि नृपे भक्तिरनुरागातिशयः स्वामिभक्तिस्तया परिवर्धिता चासो वाणी च भारती च ताम्, ऊचिवान् जगाद । स्वागताच्छन्दः । द्वितीयचरणे तु रथोद्धता । इत्थमुपजातिवृत्तम् ॥ ६६ ॥ प्राणा इति-नन्पालयन्तीति नृपाला राजानः सकलाश्च ताः प्रजाश्च तासां निखिललोकानाम्, प्राणा आयूंषि, सन्तीति शेषः । यद्यस्मात् कारणात् , तेषु नृपालेपु सन्स्वेव विद्यमानेष्वेव जीवनानि जीवितानि भवन्तीति शेपः । चकारः पादपूर्त्यर्थः । भूपेषु महीपालेपु, या द्रोह विधानस्य विद्वपकरणस्य चिन्ता विचारसन्ततिः, सा सर्वग्रजास्वेव निखिलप्रकृतिप्वेव, कृता विहिता, भवित्री भविष्यति । न खलु राजद्रोही राजद्रोह एव किन्तु सर्वप्रजाद्रोहः । अतोऽसौ न कर्तव्य इति भावः ॥ ७० ॥ समस्तपातकानामिति-हि निश्चयेन, सर्वद्रोहित्वस्य निखिलजनविद्वेषस्य संभवः समुपमात्, राजधंगेव राजद्रोह्य व, समस्तपातकानां निखिलपापानाम्, सामानाधिकरण्यस्य भूराधारः, ता भविष्यति । सर्वद्रोहित्वसंभवाद्धतो राजद्रोह्यव समस्तपापानां पात्रं भविष्यतीति भावः ॥ ७१॥ राज्ञो विरोध इति-राज्ञो नृपतेः, विरोधो विद्रोहः, बंशस्य कुलस्य, विनाशाय विध्वंसनाय, भविष्यति भविता, हि यतः राजविरोधेन चन्द्र विद्वेषेण, ध्वान्तं तिमिरम्, सर्वत्र सर्वेषु स्थानेषु, निरष्यतेऽपसार्यते दूरी क्रियत इति यावत् । अत्र राजशब्दः श्लिष्टः राजा प्रभौ नृपे चन्द्रे यचे क्षत्रियशक्रयोः' इति कोशः ॥ ७२ ॥ हर्षाय लोकस्येति--यथा येन प्रकारेण, तरुवृक्षः छायामनातपं श्रिता आगतास्तेपाम्, परिपालनाय रक्षणाय, रविप्रतापं तपनतापम् आप्नोति लभते, तथा तेन प्रकारेण, धराधिनाथो नृपः, लोकस्य जनतायाः, हर्षाय प्रमोदाय, परिपालनेन रक्षणविधिना, नित्यं निरन्तरम्, क्लिश्नाति क्लेशमनुभवति । स्वयं दुःखमनुभूय परेपां सुखमुत्पादयति पार्थिव इति भावः ॥ ७३ ॥ इति नीतिविदामिति–राजद्रोहश्च गुरुद्रोहश्चति राजद्रोहगुरुद्रोहास्त आदी येषां तेषु, बद्धं लग्नमन्तरङ्ग मनो यस्य सः, काष्टाङ्गारः, अतिशयेन मधुरं मधुरतरं तञ्च तत् क्षीरञ्चेति मधुरतरक्षीरम्, अतिशयमिष्टदुग्धम्, पित्तेन दोपविशेषेणोपहतः पीडितस्तद्वत् पित्तोपहत इव, स्वहितं निजकल्याणप्रदम्, नीतिविदा नयज्ञानाम्, वरिष्टस्य श्रेष्ठस्य, सचित्रप्रेष्ठस्य मन्त्रिश्रेष्ठस्य, इति पूर्वोक्तप्रकारम्, वचनं वाक्यम्, मनसि न चकार चेतसि न दधौ, विकारेण कोपादिना जनितः समुत्पन्ना विकारजनितः, स चासौ विद्वेपश्च विरोधश्च तम्, चकार च कृतवांश्च ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy