SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्भः पाणिना छेदनशोकं प्रापितो जातश्च हाटकमकुटघटितो बालाशोकविटपी तत्परिसरेऽष्टापि माला दृष्टा इति । तमिमं स्वप्नोदन्तमाकर्ण्य, विचिन्त्य च शुभाशुभोदकफलम् , आत्मापायशङ्काशङ्कनिचितचेतनो हर्पशोकरसोन्मग्न इव चन्दनविपरसाभ्यां मनस्यालिप्त इव कमलिनीकण्टककमलदलकलितपक्षः सितपक्ष इव स्थितोऽपि, अहार्यधैर्यचातुर्यावगाढमतिरयमम्भोनिधिगम्भीरः कुम्भिनीपतिरशुभफलमाद्यस्वप्नं मनसिकृत्य शुभफलं स्वप्नद्वयमन्तःकृतक्षुद्रदन्तो दन्तावल इव दन्तयुगलमुदञ्चयामास । पुत्रं नृपालतिलकं कुलरत्नदीपं प्राप्नोपि देवि सुरराजदिशेव सूर्यम् । दृष्टो यतः समकुटो नववालवृक्षः __ कान्ता भवन्ति खलु तस्य तदष्टमालाः ॥ ५० ॥ श्रुत्वा च देवी श्रवणायताक्षी पत्युर्वचः सा पुनरावभापे । जिज्ञासते मे हृदयं प्रियाद्यस्वप्नस्य साध्यं प्रतिपादयाद्य ।। ५१ ।। प्रहरे, कश्चन कोऽपि, तव॑तः अशोकोऽपि शोकातीतोऽपि पक्षे कके लिरपि, कुठारः पाणो यस्य तेन परशुकरण, केनचिज्जनेन, छेदनेन शोकस्तंछेदनदुःखम्, प्रापितो लम्भितः, किञ्च, तत्परिसरे तन्निकटे, हाटकमजुटवटितः काञ्चनमौलिसहितः, बालश्चानावशोकविटपी चेति बालाशोकविटपी, अशोकस्य नूतनो वृक्षः जातः सनुत्पन्नः, किञ्च, अष्टमाला अपि, अष्टावजोऽपि, दृष्टा अवलोकिताः । परशुपाणिना केनचिच्छिद्यमानोऽशोकानोकहः, सन्निकटे समुत्पन्नः समकुटः कश्चिन्नृतनाशोकपादपः, तस्य परिसरेऽष्टमालाश्च लम्बमाना इति स्वप्नत्रयं मयाद्य निशि दृष्टमिति भावः । इतीत्थं त्रयः स्वप्ना मां भृशं वाचालगन्तीति श्लोकस्य क्रियया सह सम्बन्धः । तमिममिति-इमं तं पूर्वोक्तं स्वप्नोदन्तं स्वमत्तान्तम्, आकर्ण्य श्रुत्वा, शुभाशुभं च तदुदकफलञ्चेति शुभाशुभोन्द्रक फलं मङ्गलामङ्गलोदयपरिणामम्, विचिन्त्य च विचार्य च, आन्मापायस्य स्वकीयमरणस्य या शक्षा संशीतिः सैव शङ्कः कीलस्तेन निचिता चेतना यस्य सः, हर्पश्च शोकश्चेति हर्षशोको तौ च तो रसौ चति हर्पशोकरलो तयोरुन्मग्न इव बुडित इव, चन्दनविपरसाभ्यां मलयजगरलरसाभ्याम्, मनसि चेतसि, आलिम इव दिग्ध इच, कमलिन्याः पमिन्याः कण्टकेन कमलदलेन पद्मपत्रेण च कलितो सहितौ पक्षी गरुतौ यस्य तथाभूतः, सितपक्ष इव मराल इव, स्थितोऽपि विद्यमानोऽपि, धैर्य च चातुर्यञ्चेति धैर्यचातुर्ये, अहायें धैर्यधातुर्य इत्यहार्यधैर्यचातुर्ये शाश्वतिकधैर्यदक्षत्वे तयोरवगाढ़ा लीना मतिर्यस्य सः, अम्भोनिधिरिव सागर इव गम्भीरोऽगाधो विपुलधैर्ययुक्त इति यावत, अयं पूर्वोक्तः, कुम्भिनीपतिर्नृपः सत्यन्धर इति यावत् , अशुभममङ्गलं फलं परिणामो यस्य तम्, आद्यस्वप्नं प्रथमस्वप्नं, मनसिकृत्य चेतसि कृत्वा गृढं विधायेति भावः, शुभफलं मङ्गलप्रयोजनम्, स्वमद्वयं द्वितीयतृतीयस्वप्नयुगलम्, अन्तःकृतो मुखान्तर्धतः क्षुद्रदन्तोऽल्परदनो अस्य नयाभूतः, दन्ताचल इव गज इव, दन्तयोबहिःप्रकाशमानयो रदनयोयुगलं युग्मम्, उदञ्चयामास प्रकटयामास । पुत्रमिति-हे देवि हे राशि ! यतो यस्मात् कारणात् , त्वया समकुटो मौलियुतः, नववालवृक्षः प्रत्यग्राशोकपादपः, दृष्टोऽवलोकितः, ततः, सुरराजदिशा प्राची सूर्यमिव प्रभाकरभिव, नृपालतिलकं राजश्रेष्ठम्, कुलरत्नदीपं वंशमणिदीपकम्, पुत्रं शिशु, प्राप्नोपि लभसे, तस्मिन् नवबालवृक्षे या अष्टमाला अष्टस्रजः सन्ति ताः खलु निश्चयेन तस्य पुत्रस्य कान्ता वल्लभा भवन्ति जायन्ते ॥५०॥ श्रुत्वा चेति-श्रवणपर्यन्तं कर्णपर्यन्तमायते दीर्धे अक्षिणी लोचने यस्यास्तत्सम्बुद्धी, सा देवी विजया, पत्युवल्लभस्य, वचःस्वप्नद्वयफलसूचकवचनम्, श्रुत्वा चाकर्ण्य च, पुनर्भूयः, आबभाषे जगाद । हे प्रिय हे कान्त, मे मम हृदयं चित्तम्, आद्यस्वप्नस्य, साध्यं फलम्, जिज्ञासते ज्ञातुमिच्छति, अद्यदानीम्, प्रतिपादय निवेदय ॥५१॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy