SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्भः १७ इति सप्रश्रयमालपन्तं कुतुककोरकितस्वान्तं भूपतिर्वचनान्तरमत्र न वक्तव्यमिति नियम्य, धन्योऽस्मीति तन्निदेशं शिरसि निधानं राज्यभारे नियोज्य, प्रतिदिन मेध मानरागल तालवालातिहृयो विषयसुखविवशः कानिचिद्दिनानि निनाय । अथ कदाचिदवसन्नायां निशायां वारुणीसुवासिनीकज्जलकलितराजतकरण्डक इव ग्रहराजदर्शनभयेन सत्वरं निर्गच्छन्त्या निशास्वैरिण्या निपतितताटङ्क इव नभोवारणकुम्भस्थलकलितमौक्तिकपत्र इव अपरसिन्धुपयः पूरणार्थं यामिनीकामिनीकरकलितस्फाटिकघट इव वरुणदिशावशावल्लभशुण्डादण्डच्युतसपङ्कविस इव मदनसायकशाणोपल इव पश्चिमदिशाविशालाक्षीपुष्पकन्दुक इव चरमधराधरदन्तावलकुम्भस्थल संभाव्यमानशम्बरारिवाखेट' इव निशाकरे, वीरजिनपतिकोपाग्निदग्धाङ्गमनङ्गं कलङ्कच्छलेन निजाङ्कमारोप्य संजिजीविपयेव संजीवनौषधानि गगनकाननेषु मार्गयित्वा तत्परिमार्गणायेव चरम शिखरिशिखर मधिरूढे, तत्र विरलतया वर्तमानैः संध्यारुणतमःकालेयपङ्करङ्कितगगनपर्यङ्कतले निशाचन्द्रयोः क्रीडासंमर्दविलुलितकुसुमनिकरेष्विव म्लानतामुपगतेषु तारकानिकरेपु, निजकान्तं निःश्रीकमालोक्येव नैजतेजोविरहितेष्वौषधिनिचयेषु, इतीति — इत्येवं प्रकारेण, सप्रश्रयं सविनयम्, आलपन्तं निगदन्तम्, कुतुकेनाविचारितराज्यलक्ष्मीप्राप्तिजनितकुतूहलेन कोरकितं कुड्मलितं व्याप्तमिति यावत् स्वान्तं मानसं यस्य तथाभूतम्, तं काष्ठाङ्गारम्, भूपतिः सत्यन्वरः, अत्रास्मिन् विषये, अन्यद् वचनं वचनान्तरम्, न निगाद्यम्, इतीत्थं प्रकारेण नियम्यावरुध्य, धन्योऽस्मीति कृतपुण्योऽस्मीति विचार्य तन्निदेशं राजाज्ञाम्, शिरसि मूर्ध्नि, निदधानं धरन्तम्, तम्, राज्यभारे राज्यकर्मणि, नियोज्य नियुक्तं कृत्वा, प्रतिदिनं प्रतिदिवसम्, एधमाना वर्धमाना या रामलता स्नेहवल्लरी, तस्या आल्वालायितमावालवदाचरितं हृदयं यस्य सः 'स्यादालवालमावालमावाप:' इत्यमरः, विषयसुखस्य कामसुखस्य विवशः पराधीनः सन् कानिचिद् दिनानि कतिपयदिवसान्, निनाय नयति स्म । अथ कदाचिदिति-- अथानन्तरम्, कदाचित् जातुचित्, निशायां रजन्याम् अवसन्नायां क्षीणायाम् सत्याम्, वारुणी पश्चिम दिशेव या सुवासिनी सौभाग्यवती वनिता तस्याः कजलेनाञ्जनेन कलितो युक्तो यो राज करण्डको रौप्यनिर्मितभाजनं तस्मिन्निव ग्रहराजस्य सूर्यस्य दर्शनमवलोकनं तस्माद्भयं भीतिस्तेन सत्वरं सवेगं निर्गच्छन्त्या निर्व्रजन्त्याः पलायमानाया इति यावत्, निशा रजन्येव स्वैरिणी पुंश्चली तस्याः, निपतितताटङ्क इव स्खलितकर्णाभरण इव, नभोवारणस्य गगनगजस्य कुम्भस्थले गण्डप्रदेशे कलितं धृतं यन् मौक्तिकपत्रं मुक्ताफलपट्टं तस्मिन्नित्र, अपरसिन्धोः पश्चिमसमुद्रस्य पयसो जलस्य पूरणार्थं भरणार्थं यामिनीकामिन्या रजनीरमण्याः करकलितो हस्तष्टतो यः स्फाटिकघटः सितोपलकुम्भस्तस्मिन्निव, वरुणदिशायाः पश्चिमदिशाया यो वंशावल्लभो गजस्तस्य शुण्डादण्डात् करदण्डाच्च्युतं यत् सपङ्कविसं सकर्दममृणालं तस्मिन्निव, मदनसायकानां कामवाणानां शाणोपल इव तीच्णीकरणस्तर इव, पश्चिमदिशैव या विशालाक्षी दीर्घलोचना ललनेति यावत् तस्याः पुष्पकन्दुक इव कुसुमगेन्दुक इव चरमधराधरोऽस्ताचल एव दन्तावलो गजस्तस्य कुम्भस्थलेन गण्डप्रदेशेन संभाव्यमानो त्रियमाणो यः शम्बर रेर्मनसिजस्य वज्र - खेटो हीरकमौलिस्तस्मिन्निव निशाकरे चन्द्रमसि वीर जिनपतेर्वर्धमान जिनेन्द्रस्य कोपाग्निना क्रोधपावकेन दुग्धं भस्मीभूतमङ्गं शरीरं यस्य तथाभूतम्, अनङ्गं मदनम्, कलङ्कच्छलेन लक्ष्मव्याजेन, निजाङ्कं स्वोत्सङ्गम्, आरोप्य स्थापयित्वा, संजिजीविषयेव संजीवयितुमिच्छयेव, गगनकाननेषु नभोऽरण्येषु, संजीवनौषधानि संजीवनभैपज्यानि, मार्गयित्वा गवेषयित्वा तत्परिमार्गणायेव तदन्वेषणायेव, चरम शिखरिणोऽस्ताचलस्य शिखरं शृङ्गम्, अधिरूढेऽविष्टिते सति, तत्र, विरलतया सान्तरतया, वर्तमानैर्विद्यमानैः, संध्यया तत्कालजातलोहितिम्नारुणा ये तमः कालेयपङ्कध्वान्तकस्तूरीद्रवास्तैः, अङ्कितं चिह्नितं यद् गगनमेव पर्यङ्कतलं पर्यङ्कपृष्ठस्तस्मिन् निशाचन्द्रयो रजनीरजनीकरयोः, क्रीडासंमर्देन केलिसंमर्देन विलुलितानि व्यस्तानि यानि कुसुमानि पुष्पाणि तेषां निकराः समूहास्तेष्विव तारकानिकरेषु नक्षत्रनिचयेयु, म्लानतां कान्तिराहि१. विदधानं ब० । २. कज्जलाकलित ब० । ३. पुण्यकन्दुक ब० । ४. वज्रघटक इव ब० । ३
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy