SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ एकादशी लम्भः २१६ कदाचिदसा धरापतिर्विविधरत्नराशिभिर्महाधर्महनीयकान्तिकन्दलितमानन्दकरं सकलभव्यजनानामासेचनकं लेखलोचनानामकृत्रिम चैत्यालयप्रतिमं भगवज्जिनमन्दिरं शिल्पशास्त्रपारंगतैः शिल्पकैर्निर्मापयामास । तत्र च भगवतो नित्योत्सव पक्षोत्सवप्रमुखोत्सव परम्परा निरन्तरनिष्पतये तत्समुचितानि प्रशस्तक्षेत्राणि प्रतिपादयितुकामे शात्रवजनविरामे निखिलगुणाभिरामे साक्षात्कारो जीवंधरो विजयादेवी पूर्वकृतोपकारस्मरणजनितहर्पेण तत्क्षेत्राधिपत्यं तापसजनाय प्रदापयामास । नृपस्य जननी तो निखिलशीलमालाख निर्व्यरज्यत विशालधीः कुटिलसंमृतावेकदा | अपश्यमिह पैतृकं पदममन्दकीत सुते पराक्रमजिताहिते किमधुनेति सा जानती ॥ ७ ॥ ततश्च सा देवी, अष्टापि स्नुषाः समीपे विधाय, हे वामालका हेमायितवल्लिकायमानतनुलताः सीमातीतगुणगुम्भिता मरालगामिन्यः पूर्वमेव यूयमष्टमालारूपेण मम स्वप्ने दृष्टाः, इदानीं 'वृतनवमालारूपेण, इत्युत्तरोत्तरं भवतीनां वैभवातिशयो विजृम्भतामिति प्रतिपाद्य, प्रकृतमर्थमेवं प्रकटयामास । समानन्दयतीतिं तथाभूतोऽपि सन्, पद्मां लक्ष्मीमानन्दयति वर्धयतीति तथाभूतो बभूवेति । विरोधाभासोऽलङ्कारः ॥६॥ कदाचिदसाविति — कदाचित् जातुचित्, असौ धरापतिर्नरेन्द्रः, महाबैर्महामूल्यैः, विविचरत्न राशिभिनेँकमणिमण्डलैः, महनीयकान्तिकन्दलितं प्रशस्तप्रभापूर्णम्, सकलभव्यजनानां निखिलभव्यप्राणिनाम्, आनन्दकरं हर्षविधायकम्, लेखलोचनानां निर्जरनयनानाम्, आसेचनक्रमतृप्तिकरम्, अकृत्रिमचैत्यालयप्रतिमं कृत्रिमेतरजिनालयसदृशम्, भगवजिनमन्दिरं भगवज्जिनचैत्यालयम्, शिल्पशास्त्रपारंगतैः वास्तुशास्त्रदत्तैः, शिल्पकैः कुशल कार्यकरैः, निर्मापयामास रचयामास । तत्र च भगवज्जिनमन्दिरे भगवती जिनेन्द्रस्य, नित्योत्सवपक्षोत्सव प्रमुख येषु तथाभूता य उत्सवास्तेषां परम्परा तस्या निरन्तर निष्पत्तये शश्वत्सिद्धये, तत्समुचितानि तदर्हाणि, प्रशस्तक्षेत्राणि समुत्तमस्थानानि, प्रतिपादयितुकामे प्रदातुमनसि निखिलगुणाभिरामे सकलगुणसुन्दरे, साक्षात्कामे प्रत्यक्ष पञ्चशरे, जीवन्धर इति यावत्, सति, विजयादेवी तदीयजननी, पूर्वकृतोपकारस्य स्मरणेन निध्यानेन जनितः समुत्पन्नो हप मोदस्तेन, तत्क्षेत्राधिपत्यं तत्स्थानस्वामित्वम्, तापसजनाय तापससमूहाय, प्रदापयामास दापितवान् । 2 नृपस्य जननीति - ततस्तदनन्तरम्, निखिलशीलमालायाः समग्रशीलपङ्क्तेः खनिराकरः, विशालवीविपुलमतिः, नृपस्य जीवन्धरस्य सा पूर्वोक्ता जननी सवित्री, विजयेति यावत् इह भुवने अमन्दा विपुला कीर्तिर्यशो यस्य तस्मिन्, पराक्रमेण वीर्येण जिताः पराभूता अहिता शत्रवो येन तस्मिन् सुते पुत्रे जीवन्धर इति यावत्, पैतृकं पितृसम्बन्धि, पदं धाम, राज्यमिति यावत् अपश्यम् अवलोकयम्, अधुना साम्प्रतम्, किम्, किं प्रयोजनं मदीयमवशिष्टम्, अपितु न किमपीति, जानती सती, एकदा एकस्मिन् काले, कुटिलसंसृतौ मायाविसंसारे, व्यरज्यत विरक्तां बभूव | पृथ्वीच्छन्दः ॥ ७ ॥ 3 ततश्च सा देवीति — ततश्च तदनन्तरञ्च सा देवी राज्ञी, अष्टापि स्नुषाः पुत्रवधूः, समीपे निकटे, विधाय कृत्वा, हे वामाः कुटिलाः सुन्दरा वा अलकाचूर्णकुन्तला यासां ताः, हेमायिता सुवर्णायिता या वल्लिका लता तद्वदाचरन्ती तनुलता देहवल्ली यासां ताः, सीमातीवर संख्यैर्गुणैर्दया सौन्दर्यादिभिर्गुम्भिताः सहिताः, मरालगामिन्यो गजगामिन्यः पूर्वमेव प्रागेव यूयं भवत्यः, अष्टमालारूपेण वसुलक्संस्थानेन, मम, स्वप्ने स्वप्नावलोकनकाले, दृष्टा अवलोकिताः, इदानीमधुना, धृताश्रिता नव नवसंख्याकाः पक्षे नवा नूतना या मालाः खजस्तासां रूपेण, दृष्टाः, इतीत्थम्, उत्तरोत्तरमग्रेऽग्रे, भवतीनां युष्माकम् वैभवातिशय ऐश्वर्यप्रकर्षः, १. प्रशस्तदेवोपकरनिवद्ययोग्यनदीमातृकदेवमातृकक्षेत्राणि च प्रतिपाद्य शात्रवजनविरामो निखिलगुणाभिरामः साक्षात्कारी जीवन्धरो ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy