SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १६६ जीवन्धरचम्पूकाव्ये तदानीं सकलवीरजनकर्णाभरणायमानभुजप्रतापयोः श्रीदत्तकलिङ्गभूपयोः परस्परनिकृत्तविशिखमनिमेषैरप्यलक्ष्यशरसन्धानमोक्षणमगोचरजयपराजयमदृष्टपूर्वं दिविपदामद्भुततरं समरमुदजम्भत । श्रीदत्त एष करनर्तितचापदण्डमाकृष्य संयति तथा विशिखान्मुमोच । एको यथा दशगुणक्रमतः प्रवीरानाक्रम्य कृतन्ति जवाद्रिपुसैन्यवर्गे ।। ७४ ।। श्रीदत्तो रन्ध्रमन्विष्य शरैस्तस्य महीपतेः। पातयामास मकुटं प्रगर्जञ्छिरसा सह ॥ ७५ ॥ तदीयमकुटोद्गतैरमितमौक्तिकैः पातितै रराज समराजिरं पतितभूमिभृन्मस्तकम् । कलिङ्गवसुधापतिप्रथितराज्यलक्ष्म्यास्तदा विकीर्णमिव विस्तृतैर्नयनबाष्पबिन्दूत्करैः ॥७६॥ तदनु भासां निधौ पश्चिमपाथोनिधौ निमज्जति शोकहर्षपारावारनिमग्नाः, कमलेषु मुकुलीभवत्सु मुकुलीकृतसमरविलासाः, जगदेकवीरे मारे समधिरोपितशरासनगुणे क्षणादवरोपितचापगुणाः, उभयेऽपि सैनिकाः स्वकटकभुवमासेदुः। अपरेयुः काष्टाङ्गारेण रिपुजनगहनाङ्गारेण बहुधा प्रोत्साहितविजयकथनो मथनः प्रतिफलिततपनविम्बप्रभापिञ्जरितदिशावकाशः कवलयन्निव रिपुसेनासमुद्रमाजिरङ्गमाजगाम । rawwwwwwwwww.rrrrrrrrrrrrrrrrrrrrrrrrrr-n. हर्षयन् प्रमोदयन् , श्रीदत्त एतन्नामा सुभटः, मृगेन्द्रः सिंहः, कुञ्जरमिव गजमिव, एतं कलिङ्गभूपालम्, अभिजगाम तत्सम्मुखमाजगाम ॥ ७३ ॥ तदानीमिति तदानीं तस्मिन् काले, सकलवारजनानां निखिलशूराणां कर्णाभरणायमानः श्रवणालङ्कारायमाणो भुजप्रतापो बाहुतेजो ययोस्तयोः, श्रीदत्तकलिङ्गभूपयोः श्रीदत्तकलिङ्गेशयोः परस्परं मिथोनिकृत्ताश्छिन्ना विशिखा बाणा यस्मिस्तत् , अनिमेपैरपि देवैरपि, अलक्ष्ये अदृश्ये शराणां बाणानां सन्धानमोक्षणे धारणत्यजने यस्मिस्तत् , अगोचरावविषयौ जयपराजयौ यस्मिंस्तत् , दिविषदां देवानाम्, अदृष्टपूर्वमनवलोकितपूर्वम्, अद्भुततरमाश्चर्यजनकम, समरं युद्धम्, उदजम्भत वर्धते स्म । श्रीदत्त एषेति-एष श्रीदत्तः, संयति समरे, करनर्तितचापदण्डं हस्तचालितकोदण्डदण्डम्, आकृप्य समाकृष्टं कृत्वा, तथा तेन प्रकारेण, विशिखान् बाणान् , मुमोच तत्याज, यथा येन प्रकारेण, एको विशिखः दशगुणक्रमतो दशगुणितान , प्रवीरान् योद्धन् , आक्रम्य रिपुसैन्यवर्गे विपक्षपृतनासमूहे, जवात् वेगात् , कृन्तति छिनत्ति ॥ ७४ ॥ श्रीदत्तो रन्ध्रमिति-प्रगर्जन् गर्जितं कुर्वन् , श्रीदत्तः, रन्ध्र छिद्रम्, अन्विष्य मार्गयित्वा, शरैर्बाणः, तस्य महीपते राज्ञः, शिरसा सह मूर्ना साकम्, मकुटं मौलिम्, पातयामास पातयति स्म ॥ ७५॥ __तदीयमकुटोद्गतैरिति-तदा तस्मिन् काले पतितानि स्खलितानि भूमिभृतां राज्ञां मस्तकानि शिरांसि यस्मिस्तत्, समराजिरं युद्धाङ्गणम्, तदीयमकुटोद्गतैस्तन्मौलिसमुत्पतितैः, पातितैः संसितैः, मौक्तिकैर्मुक्ताफलः कलिङ्गवसुधापतेः कलिङ्गभूपालस्य प्रथिता प्रसिद्धा या राजलक्ष्मीः साम्राज्यश्रीस्तस्याः, विस्तृवैविततैः, नयनबाष्पबिन्दूत्करैरश्रुपृषतांसमू हैः, विकीर्णमिव व्याप्तमिव, रराज शुशुभे ॥ ७६ ॥ तदनु भासां निधाविति तदनु तदनन्तरम्, भासां निधौ सूर्ये, पश्चिमपाथोनिधौ पश्चिममार्णवे, निमज्जति सति निमग्नीभवति, शोकहर्षपारावारे विषादामोदसागरे निमग्ना बुडिताः, कमलेषु पद्मषु, मुकुलीभवत्सु निमीलत्सु, मुकुलीकृतः सङ्कोचितः समरविलासो युद्धचेष्टितं यैस्ते, जगदेकवीरे त्रिलोकप्रधानसुभटे, मारे मदने, समधिरोपितः समधिष्ठापितः शरासने धनुषि गुणो मौर्वी येन तथाभूते सति, क्षणादल्पेनैव कालेन, अवरोपितो विमोचितश्चापगुणो धनुःप्रत्यञ्चा यैस्ते तथाभूताः, उभयेऽपि पक्षद्वयसम्बन्धिनोऽपि, सैनिकाः सुमटाः, स्वकटकभुवं निजशिविरपृथिवीम्, आसेदुः प्रापुः। अपरेधुरन्यस्मिन् दिवसे, रिपुजन एव शत्रुलोक एव गहनं वनं तस्याङ्गारस्तेन, काष्ठाङ्गारेण राजघन, बहुधा विविधप्रकारेण, प्रोत्साहितानि प्रवधितानि विजयकथनानि यस्य तथाभूतः, मथनस्तच्छयालः, प्रतिफलितं प्रतिबिम्बितं यत्तपनविम्बं सूर्यमण्डलं
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy