________________
जांवन्धरचम्पूकाव्ये अश्वारोहैः कृत्तदण्डानि भूमौ पर्यस्तानि स्फारच्छत्राणि रेजुः । रूप्यस्थालानीव क्लुप्तानि मृत्योराहाराय प्रौढचन्द्रद्युतीनि ।। ५६ ।। खड्गैः कृत्ता वाजिनां वक्त्रभागा रक्तस्रोतोनीयमाना जवेन । मनाङ्गानामुन्मुखानां हयानां भ्रान्ति तेनुः पश्यतामाजिरङ्ग ।। ५७ ॥ भटानां रोषेण प्रतिभटसमीपं प्रचलतां
समुदाता रेजुश्चलदसिलताः पाणिकलिताः । भुजश्रीखण्डद्रुप्रकरकुहरोद्यद्विषधरा
रिपूणां प्राणालिं कबायतुकामा इव तदा ।। ५८ ।। समीकपदवीविदः समदसिंहनादा भटा ।
ववल्गुरमितैः शरै रचितमण्डपाः पुष्करे । निरस्ततपनातपश्रमभराः क्षणाद्भङ्गरैः.
शरीरनिकरैर्यशःस्थिरतनूभुवि प्रेप्सवः ।। ५६ ॥ तत्र समीककलाविपश्चिदाश्चर्यवृत्तिः पदातिः, केनचित्पदगेन भुजध्वजतिर्यगर्पितवैजयन्ती
वामे सव्ये, करे पाणौ, करवालवल्लीं कृपाणलताम्, विचलयन् कम्पयन् , रिपुं वैरिणम्, आप प्राप, तदभिमुखं जगामेति यावत् । तस्य पूर्वोक्तस्य, वीरस्य शूरस्य, रिपुखण्डनकेलिकायां शत्रुशकलनक्रीडायाम्, अक्षीणा शक्तिर्यस्य तथाभूतोऽहीनसामर्थ्यः, सः वामो बाहुः, हि निश्चयेन, दक्षिणत्वं वामेतरत्वम्, पने कौशलम्, अगमत्प्राप। वसन्ततिलकावृत्तम् ॥५५॥
अश्वारोहैरिति-अश्वारो हैः सादिभिः, कृत्ताश्छिन्ना दण्डा येषां तानि, अतएव भूमो पृथिव्याम्, पर्यस्तानि विकीर्णानि, स्फारच्छत्राणि विशालातपत्राणि, मृत्योर्यमस्य, आहाराय भोजनाय, क्लुप्तानि रचितानि, प्रोढचन्द्रस्येव धु तिर्येषां तानि तरुणहिमरश्मिकान्तीनि रूप्यस्थालानीव रजतपात्राणीव, रेजुः शुशुभिरे । शालिनीच्छन्दः ॥५६॥
खड़गैरिति-खड़गैः कृपाणैः, कृत्ताश्छिन्नाः, वाजिनां वाहानाम् 'वाजिवाहावंगन्धर्वहयसैन्धवसप्तयः' इत्यमरः, वक्त्रभागा मुखप्रदेशाः, जवेन वेगेन, रक्तस्रोतोनीयभाना रुधिरप्रवाहनीयमानाः सन्तः, आजिरङ्गे समराजिरे, पश्यतामवलोकयताम्, जनानामिति शेषः, मग्नाङ्गानां अडितदेहानाम्, उन्मुखानाम् उत्थितवक्त्राणाम्, हयानां वाहानाम्, भ्रान्ति भ्रमम्, तेनुः विस्तारयामासुः । शालिनीच्छन्दः ॥५७॥
भटानामिति तदा तस्मिन् काले, रोषेण कोपेन, प्रतिभटसमीपं प्रतियोद्धनिकटं यथा स्यात्तथा, प्रचलतां गच्छताम्, भटानां शूराणाम्, समुद्धाताः समुत्थापिताः, पाणिकलिता हस्तश्ताः, चलदसिलताश्वञ्चलकृपाणवल्लयः, रिपूणां वैरिणाम, प्राणालिं जीवितसमूहम्, कवलयितुकामा प्रस्तुमनसः, भुजा एव बाहव एव श्रीखण्डदुप्रकराश्चन्दनवृक्षसमूहास्तेषां कुहरेभ्यो विवरेभ्य उद्यन्तः समुत्तिष्ठन्तो ये विषधरा नागास्त इव, रेजुः शुशुभिरे । रूपकोत्प्रेक्षे । शिखरिणीच्छन्दः ॥ ५८ ॥
समीकपदवीविद इति-समीकपदवी युद्धपदवीं विदन्ति जानन्तीति समीकपदवीविदः समदः साहङ्कारः सिंहनादः पवेडा येषां ते समदसिंहनादाः, अमितैरसंख्यातः, शरैर्वाणैः, पुष्करे गगने, रचितो विहितो मण्डपो वस्त्रभवनं यैस्त इति रचितमण्डपाः, तपनस्य सूर्यस्यातपेन धर्मेण जन्यः श्रमभरः खेदातिशय इति तपनातपश्रमभरः निरस्तो दूरीकृतस्तपनातपश्रमभरो यैस्त इति निरस्ततपनातपश्रमभराः, क्षणादल्पेनैव कालेन, भङ्गुरैर्विनश्वरः, शरीरनिकरैदेहसमूहैः, यशांस्येव कीर्तय एव स्थिरतन्वः स्थायिशरीराणि ता इति यशःस्थिरतनूः, भुवि पृथिव्याम्, प्रेप्सवः प्राप्नु मिच्छवः, भटाः शूराः, ववल्गुः सञ्चलन्ति स्म। पृथ्वीवृत्तम् ॥ ५ ॥
तत्र समीककलेति-तत्र समरे, समीककलाविपश्चित्सु युद्धकलाकोविदेष्वाश्चर्यवृत्तिविस्मयावहचरित इति सर्माककलाविपश्चिदाश्चर्यवृत्तिः, पदातिः पत्तिः, भुजध्वजेन बाहुध्वजेन तिर्यगर्पिता तिर्यगात्ता या