SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पृकाध्ये तदनु सरखेलं भुवि पदानि निदधानं जयलक्ष्मीनिबन्धननिगलकटकशङ्कावहमरकताङ्गदशोभितं सञ्चरणसञ्चलन्मुक्तादामबाभास्यमानवक्षःस्थलं जीवन्धरमवलोक्य तत्रत्या एवमेवं विदामासुः । कुमारं भूपालाः कतिचन विदुर्भूपतिलकं परे माकारस्थगितममरं संजगदिरे । सदेहं कन्दर्प कुवलयदृशोऽवादिषुरमुं तथा काष्टाङ्गारप्रमुखमहिपा मृत्युमविदन् ।। २० ।। एवं सर्वे विलोक्यमानो जीवन्धरो यन्त्रसमीपमासाद्य विद्याजलधिसुधाकरश्चन्द्रकलानुकारिदंष्ट्राविराजितवराहयन्त्रं चिरं विलोकमानस्तच्छेदनावसरमीक्षमाणः क्षणादधिचक्रमुत्प्लुत्य सज्जीकृतधनुष्टङ्कारकम्पितवसुधातलस्तद्यन्त्रं महीभुजा दर्प मानिनां खेदं गोविन्दपार्थिवस्य शङ्का च युगपञ्चापसमारोपितरोपेण विव्याध । __आनन्दोद्रिक्तहृदयो गोविन्दमहिपस्तदा । राज्ञां धुरि जगादोच्चैः प्राज्ञानामग्रणीरिदम् ॥ २१ ।। ~~~~~~~~~~~~~~~~~~~~~~~~~~ तदनु सखेलमिति-तदनु तदनन्तरम्, सखेलं सक्रीडं यथा स्यात्तथा, भुवि मह्याम्, पदानि चरणानि, निदधानं निक्षिपन्तम्, जयलक्ष्म्या विजयश्रिया निबन्धनायावरोधनाय यो निगलकटको निगडवलयस्तस्य शङ्कावहं संशयोत्पादकं यन्मरकताङ्गन्दं हरिन्मणिमयकेयूरं तेन शोभितं समलङ्कृतम्, सञ्चरणेन सद्गमनेन सञ्चलत् चपलीभवद् यन्मुक्तादाम मौक्तिकस्रक तेन बाभास्यमानमतिशयेन शोभमानं वक्षःस्थलं बाहुमध्यं यस्य तथाभूतम्, जीवन्धरं सात्यन्धरिम्, अवलोक्य दृष्ट्वा, तत्रत्या तत्र स्थिता जनाः, एवमेवम् इन्थमित्थम्, विदामासुर्जजुः । कुमारं भूपाला इति–कतिचन केऽपि, भूपाला राजानः, कुमारं जीवन्धरम्, भूपतिलकं नृपतिश्रेष्ठम्, विदुर्जजुः, परेऽन्ये भूपालाः, माकारेण मनुजवेषेण, स्थगितः पिहितस्तम्, अमरं निर्जरसम्, संजदिगरे कथितवन्तः, कुवलयदृशो नीलोत्पललोचना ललनाः, अमुं कुमारम्, सदेहं शरीरसहितम्, कन्दर्प मीनकेतनम्, अवादिषुरगदिषुः, तथा किञ्च, काष्टाङ्गारः कृतघ्नः प्रमुखो मुखो येषु तथाभूताश्च ते महिपाश्च राजानश्चेति काष्टाङ्गारप्रमुखमहिपाः मृत्युं यमम्, अविदन् जजुः, अत्र 'अविदन्' इति प्रयोगश्चिन्त्यः, 'सिजभ्यस्तविदिभ्यश्च' इत्यनेन झस्य जुसादेशे 'अविदुः' इति स्यात् । शिखरिणीच्छन्दः ॥२०॥ एवं सर्वरिति-एवमनेन प्रकारेण सवैर्निखिलैः विलोक्यमानो दृश्यमानः, विद्याजलधिसुधाकरो विद्यार्णवरजनीकरः, जीवन्धरो जीवकः, यन्त्रसमीपं वराहयन्त्राभ्यर्णम्, आसाद्य प्राप्य, चन्द्रकलानुकारिदंष्ट्राभ्यां शशिकलासदृग्दंष्ट्राभ्यां विराजितं शोभितं यद्-वराहयन्त्रं तत् , चिरं दीर्घकालं यावत् , विलोकमानः पश्यन् , तस्य च्छेदनस्यावसरमिति तच्छेदनावसरं तद्वराहयन्त्रभेदनकालम्, ईक्षमाणो विलोकमानः, क्षणादल्पकालेनैव, चक्र इत्यधिचक्रं चक्रोपरीति यावत् , उत्प्लुत्य समुद्त्य, सज्जीकृतं सप्रत्यञ्चीकृतं यद्धनुः कोदण्डं तस्य टङ्कारेणाव्यक्तध्वनिना कम्पितं वेपितं वसुधातलं महीतलं येन तथाभूतः सन् , तद्यन्त्रं पूर्वोक्तवराहयन्त्रम्, महीं भूमि भुञ्जन्ति रक्षन्तीति महीभुजस्तेषाम्, दर्गा गर्वम्, मानिनामहङ्कारिणाम, खेदं द्वेषम् 'खेदो द्वेषोऽपहर्षश्च' इति धनञ्जयः, गोविन्दपार्थिवस्य स्वकीयमातुलस्य, शङ्कां च यन्त्रभेदनविदग्धोऽयं न वेति सन्देहञ्च, युगपदेककालावच्छेदेन, चापे धनुषि समारोपितो धृतो यो रोपो बाणस्तेन, विव्याध चिच्छेद । आनन्दोद्रिक्तहृदय इति तदा तस्मिन्काले, प्राज्ञानामवसरज्ञानाम्, अग्रणीः प्रधानः, आनन्देन हर्षेणोद्रिक्तं सम्भृतं हृदयं चेतो यस्य तथाभूतः, गोविन्दमहिपो गोविन्दमहाराजः, महि-मही-भूमि-भूमी, १ महिपात्र।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy