SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये ततः काष्टाङ्गारेण निजबलशवलेनाभ्यागत्य बहुधा सम्मानितो गोविन्दमहीपतिः, राजराजपुरीनिकाशां राजपुरीं प्रविश्य, तत्र विविधरत्नचयविचित्रस्वयंवरशालां परिकल्प्य, वराहत्रयशोभितचन्द्रकयात्रभेदं कन्याशुल्कतया सकलदेशेषु घोपयामास । । परःसहस्रं प्रथिता महीपाः प्रापुस्तदा तां नगरी गरिष्ठाम् । भेरीरवालोलसमस्तलोकाः सेनारजोभिः पिहिताभ्रभागाः ।। १४ ।। स्वयंवरगृहे तत्र महीशाः सानुयायिनः । मञ्चेषु मिलिता मेरुशृङ्गेष्विव सुरेश्वराः ।। १५ ।। तत्र मध्यनिबद्धसंभ्रमद्यन्त्रभेदिनमतिमानमहिमानं युवानमस्मन्नन्दिनी शशिकलेव प्रदोपं शचीदेवीव पुरन्दरमलंकरिष्यतीति गोविन्दराजेन कारितमारावं निशम्याहमहमिकया चलितेन, वक्षःस्थलविलसितपाटीरपङ्कसंगतकुङ्कमस्थासकरजःपुञ्जपिञ्जरितदशदिशेन, आक्षेपडोलायमानमुक्ताकलापेन चलितनवमालिकोड्डीनभृङ्गसङ्घसंस्तूयमानयशोविभवेन, अर्धावलम्बितकर्णपूरचुम्व्यमानगण्डस्थलेन राजकेन स्वयंवरमण्डपं स्वयमुच्चलितमिवाभवत् । तस्मै काष्टाङ्गाराय, सद्यो झटिति, तदतिशयितं काष्टाङ्गारप्रहितप्राभृतेभ्योऽपि समुन्कृष्टम्, एतत् प्राभृतम्, प्रेषयामास प्रजिघाय । मालिनीवृत्तम् ॥ १३ ॥ ततः काष्ठाङ्गारेणेति-ततस्तदनन्तरम्, निजबलेन स्वकीयसैन्येन शबलश्चित्रितस्तेन, काष्टाङ्गारेण कृतघ्नेन, अभ्यागत्य सम्मुखमागत्य, बहुधा नैकधा, संमानितः समादृतः, गोविन्दमहीपतिर्विदेहाधीशः, राजराजस्य कुबेरस्य पुरी नगरी राजराजपुरी तस्या निकाशा सदृशी ताम् अलकासंनिभाम, राजपुरी हेमाङ्गदविषयराजधानीम्, प्रविश्य प्रवेशं विधाय, तत्र पुर्याम्, विविधरत्नचयनकप्रकारमणिमण्डलैर्विचित्रा विस्मयकरी या स्वयंरशाला स्वयंवरसभा ताम्, परिकल्प्य कारयित्वा, वाराहत्रयेण कृत्रिमसूकरत्रितयेन शोभितं समलङ्कृतं यच्चन्द्रकयन्त्रं चन्द्रकवेधयन्त्रं तस्य भेदं विदारणम्, कन्याशुल्कतया स्वसुताशुल्कत्वेन, सकलदेशेषु निखिलजनपदेषु, घोषयामास डिण्डिमध्वनिना प्रकटयामास । परः सहस्रमिति-भेरीरवेण दुन्दुभिनादेनालोकाः चला: सतृष्णा वा समस्तलोका निखिलनरा यैस्ते, 'लोलश्चलसतृष्णयोः' इत्यमरः, सेनारजोभिः पृतनापरागैः, पिहितः समाच्छादितोऽभ्रभागो गगनप्रदेशो यैस्ते, प्रथिताः प्रसिद्धाः, परःसहस्रं सहस्रादप्यधिकाः, महीपा राजानः, तदा तस्मिन् काले, गरिष्टां श्रेष्ठाम्, तां नगरी राजपुरीम्, प्रापुः प्राप्तवन्तः, तत्र समाजग्मुरिति यावत् । उपजातिवृत्तम् ॥१४॥ स्वयंवरगृह इति-मेरुशृङ्गषु सुराद्रिशिखरेषु, सुरेश्वरा इव देवेन्द्रा इव, सानुयायिनः मानुचराः, महीशा राजानः, तत्र तस्मिन् , स्वयंवरगृहे स्वयंवरशालायाम्, मञ्चेषु पर्यङ्केषु, मिलिताः संगताः बभूवुरिति शेषः ॥१५॥ तत्र मध्यनिवद्धेति-तत्र स्वयंवरगृहे, मध्यनिबद्धमन्तःस्थापितं संभ्रमच्च पूर्णमानं च यद्यन्त्रं तद् भिनत्तीत्येवं शीलम्, अतिमानो लोकोत्तरो महिमा प्रभावो यस्य तथाभूतम्, युवानं तरुणम्, अस्मन्नन्दिनी मन्पुत्री, प्रदोषं रजनीमुखम्, शशिकलेव चन्द्रकलेव, पुरन्दरं शक्रम्, शचीदेवीव पुलोमजेव, अलङ्करिष्यति शोभयिष्यति, इत्येवम्, गोविन्दराजेन गोविन्दभूपालेन, कारितं विधापितम्, आरावं घोषणाम्, निशम्य समाकर्ण्य, अहमहमिकयाऽहंपूर्वभावेन, चलितेन स्वस्थानात्प्रयातेन, वक्षःस्थलेषु बाहुमध्यस्थलेषु विलसिताः शोभिता ये पार्टीरपङ्कसंगतकुङ्कुमस्थासकाश्चन्दनद्रवयुक्तघुसणतिलकास्तेषां रजःपुन्जेन परागसमूहेन पिञ्जरिताः पिङ्गलवर्णीकृता दश दिशा दश काष्टा येन तेन, आक्षेपेण प्रकम्पेन डोलायमान आन्दोलिकावदाचरन् मुक्ताकलापो मौक्तिकस्रक यस्य तेन, चलिताभ्यो नवमालिकाभ्यो नूतनस्रग्भ्य उड्डीना उत्पतिता ये भृङ्गसङ्घाः षट्पदसमूहास्तैः संस्तूयमानाः सन्नूयमाना विभवा ऐश्वर्याणि यस्य तेन, अर्धावलम्बितेन मनाक् समानेन कर्णपूरेण कर्णाभरणेन चुम्ब्यमानं गण्डस्थलं कपोलभागो यस्य तेन, राजकेन राजकुमारसमूहेन, स्वयंवरमण्डपं स्वयंवरभवनम्, स्वयं स्वतः, उच्चलितमिव समुद्गच्छदिव, अभवत् बभूव । १ संभ्रमसंतत ब.।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy