SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ नवमो लम्भः इदानीं भवतो यत्र वाञ्छावल्लयधिरोहति । तत्राशु गम्यतां भद्र द्विजवर्य महामते ॥१५॥ इति तस्या मन्दस्मितचन्द्रिकामेदुरवदनचन्दिरसुधासारायमाणवचोधारां 'साधु-साधु मुष्टक्तम्' इति प्रशंसमानः, करेण यष्टिमालम्व्य कृच्छादुत्थाय प्रस्खलन् , तदीयविकचविचकिलकुसुमकुलसुरभिलहंसतूलशयनाधिरोहाय प्रयतमानः, तत्र हस्तावलम्बनवशेन तन्निवारणपरं चेटीनिकरं निवारयन्त्या सुरमञ्जर्या सहर्षमनुमतः, स द्विजवृद्धः क्रमेण सुष्वाप । वृद्धं तं तरुणीविलासरसिकं वीक्ष्येव भासां पति वृद्धः सन्चरमक्षमाधरगुहाकेलीगृहं प्राविशन् । वारुण्याः किलसंगमाय रसिकः स्काराङ्गरागाश्चितः ____कन्दर्पोऽपि शरासनं करतले चक्रे पृपत्कैः सह ।। १६ ।। तदनु सकलजनतादृष्टिरोधकरे तिमिरनिकरे विजम्भिते, तमालन्ति सकलतरवः, पिकजालन्ति विहंगमाः, नीलाचलन्ति भूमिधराः, भल्लूकन्ति निखिलवनमृगाः, कालिन्दीमनुकुर्वन्ति निम्नगाः, इति लोकस्य विभ्रमो वभूव । चेतसा, न, इति गिरापि वाण्यापि, मेदुरा मिलिता, तथा निवेदयन्तीति यावत्, सा कुमारी सुरमञ्जरी, स्वयम्, अभ्यवहृत्य भोजनं कृत्वा, पुनर्भूयः, आगत्य समेत्य, सादरं ससन्मानं यथा स्यात्तथा, बभाण जगाद ॥१४॥ इदानीमिति–इदानीमधुना, भवतः श्रीमतः, वाञ्छावल्ली इच्छालता, यत्र यस्मिन् स्थाने, अधिरोहति समधिरूढा भवति, हे महामते हे महाप्राज्ञ, द्विजवयं विप्रप्रधान, भद्र साधो, तत्र तस्मिन् स्थाने, आशु शीघ्रम्, गम्यताम् व्रज्यताम्, भवतेति शेपः ॥१५॥ इति तस्या इति तस्याः सुरमञ्जर्याः, इति पूर्वोक्तप्रकाराम, मन्दस्मितं मन्दहसितमेव चन्द्रिका ज्योत्स्ना तया मेदुरो मिलितो यो वदनचन्दिरो मुखचन्द्रमास्तस्य सुधासारायमाणा पीयूषसारवदाचरन्ती या वचोधारा वाणीसन्ततिस्ताम्, साधु साधु श्रेष्ठं श्रेष्ठम्, सुष्ठुक्तं शोभनं गदितम्, इतीत्थं प्रशंसमानः श्लाघमानः, करेण हस्तेन, यष्टिं लगुडिकाम्, आलम्व्य समाश्रित्य, कृच्छ्राद् दुःखात्, उत्थाय समुत्थितो भूत्वा, प्रस्खलन् प्रपतन् , हंसतूलस्य शयनं हंसतूलशयनं, विकचानि प्रस्फुटानि यानि विचकिलकुसुमकुलानि मृदुलदलपुष्प विशेषनिकुरम्बाणि तः सुरभिलं सुगन्धि, तदीयं सुरमञ्जरीसम्बन्धि विकचविचकिलकुसुमकुलसुरभिलं यद् हंसतूलशयनं तस्मिन्नधिरोहस्तस्मै, प्रयतमानः प्रयत्नं कुर्वाणः, तत तस्मिन् कार्ये, हस्तावलम्बनवशेन हस्ताश्रयनिघ्नत्वेन, तन्निवारणपरं तत्प्रतिषेधतत्परम्, चेटीनिकरं दासीसमूहम्, निवारयन्त्या निषेधयन्त्या, सुरमार्या, सहर्ष सप्रमोदम्, अनुमतः प्राप्तानुज्ञः, स पूर्वोक्तः, द्विजवरो विप्रोत्तमः, जीवन्धर इति यावत्, क्रमेण क्रमशः, सुप्वाप शिश्ये । वृद्धं तं तरुणीति-तं पूर्वोक्तम्, वृद्धं स्थविरम्, तरुणी विलासे युवतिसम्भोगे रसिकं सस्नेहम्, वीच्येव समवलोक्येव, वृद्धः परिणतः, भासां पतिः सूर्यः, वारुण्याः पश्चिमदिगगनायाः, संगमाय समुपभोगाय, रसिको रसयुक्तः, स्फारेण महताङ्गरागेण विलेपनेनाञ्चितः शोभितः सन्, चरमक्षमाधरस्यास्ताचलस्य गुहैव दर्येव केलीगृहं क्रीडाभवनम्, प्राविशत् प्रविवेश, किलेति सम्भावनायाम, कन्दपोऽपि कामोऽपि, पृषकैर्बाणैः, सह साकम्, शरासनं धनुः, करतले हस्ततले, चके कृतवान् , धरति स्मेति यावत् ॥१६॥ तदन्विति-तदनु तदनन्तरम्, सकलजनताया निखिलजनसमूहस्य दृष्टिरोधकरे दृगवरोधविधायके, तिमिरनिकरे ध्वान्तसमूह, विजृम्भिते वृद्धिङ्गते सति, सकलतरवो निखिलवृक्षाः तमालन्ति तापिच्छवृक्षा इवाचरन्ति, विहंगमाः शकुनयः पिकजालन्ति कोकिलकलापा इवाचरन्ति, भूमिधराः पर्वताः, नीलाचलन्ति अञ्जनगिरय इवाचरन्ति, निखिलवनमृगा अखिलविपिनजन्तवः, भल्लकन्ति ऋक्षा इवाचरन्ति, निम्नगाः सरितः, कालिन्दी यमुनाम्, अनुकुर्वन्ति विडम्बयन्ति, इतीत्थम्, लोकस्य जनस्य, विभ्रमः सन्देहः, बभूव ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy