SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १४६ जीवन्धरचम्पूकाव्ये किं वाचात्रिसरेण मुग्धपुरुषाः किं वा वृथाडम्बरै रात्मश्लाघनयानया किमु भटाः सैपा हि नीचोचिता । संक्रीडद्रथचक्रकृष्टधरणौ भिन्नभमुक्ताफलै श्चापाभ्राच्छरवर्पतो विजयिनः शुभ्रं यशोऽङ्करति ||३१|| इत्यादि वदतामेपामधरोष्ठपुटाविव । सैनिकानां समूह द्वौ सङ्गतौ समरोद्धतौ ||३२|| तदनु कुरुकुञ्जरपद्मास्याभ्यां तुङ्गतमशताङ्गसङ्गताभ्यां तिलकितमुखभागाः प्रत्यर्थिसार्थग्रसनाय प्रमृताभिरिव मृत्युरसनाभिः पट्टिसवल्लरीभिः परिवृताः, शात्रवजनप्राणानिलसंजिघृक्षया समा गताभिरिव भुजगीभिरसिलताभिर्विलसिताः, समीकविलोकनार्थं सन्निहितसूर्यचन्द्रशङ्कावहसौवर्णवज्रखेटकमण्डलमण्डिताः, विरोधिराजमण्डलकवलनायागताभिरिव विधुन्तुदपरम्पराभिः शक्तिभिर्भयानकाः, उभयेऽपि सैनिकाः सङ्ग्राम शिल्पमनल्पं कल्पयितुमारभन्त । शरासनगुणारवैः कुरुपतेः शराणां चयैः गभीरहयहेषितैर्मद्गजावलीबृंहितै परस्परविभर्दिभिर्गगनमण्डले पूरिते । जगत्त्रितयमन्वभूत्परमतोक्तशब्दात्मताम् ||३३|| किं वाचाविसरेणेति — हे मुग्धपुरुषा हे मूढमानवाः, वाचां वचनानां विसरेण समूहेन, किं किं प्रयोजनम् ? वृथाडम्बरैर्निध्प्रयोजनकार्याटोपैः वा किं किं प्रयोजनम् ? अनया क्रियमाणया, आत्मश्लाघनया स्वप्रशंसया, किमु किं प्रयोजनम्, उ वितर्के, हि यतः, एषा सा इयं सा, नीचोचिता नीचजनार्हा, अस्तीतिशेषः, संक्रीडन्तः संचलन्तो ये रथाः स्यन्दनास्तेषां चक्रे रथाङ्गः कृष्टा प्राप्तकपणा या धरणिः पृथिवी भिन्ना विदीर्णा य इभा गजास्तेषा मुक्ताफलैर्मुक्तानिकरैः, चापाभ्रात् कोदण्डवलाहकात् शरवर्षतः वाणान् वर्षतः, अत्र पष्ठीसमासश्चिन्त्यः, विजयिनो विजययुक्तस्य जनस्य, शुभ्रं धवलम्, यशः कीर्तिः अङ्कुरति प्ररोहति । शार्दूलविक्रीडितच्छन्दः ॥३१॥ तस्याम्, " इत्यादीति — इत्यादि पूर्वोक्तप्रकारम्, वदतां कथयताम्, एषां सैनिकानां सुभटानाम्, समरोद्धतौ युद्धोद्धती, द्वो समूह समुदायौ, अधरोष्ठपुटाविव दशनच्छद्रयुगलपुटाविव संगतौ मिलितौ ॥३२॥ तदनु कुरुकुखरेति - तदनु तदनन्तरम् तुङ्गतमशताङ्गाभ्यां समुन्नतरथाभ्यां संगतौ सहितौ ताभ्याम्, कुरुक्कुञ्जरश्च पद्मास्यश्चेति कुरुकुञ्जरपद्मास्यौ ताभ्याम्, तिलकितो विशेषितो मुखभागोऽग्रभागो येषां ते, प्रत्यर्थिनां शत्रूणां सार्थः समूहस्तस्य ग्रसनं निगरणं तस्मै, प्रमृताभिविस्तृताभिः, मृत्युरसनाभिरिव यमजिह्वाभिरिव पट्टिसवल्लरीभिरत्र विशेषलताभिः पट्टिशोऽस्त्रभेदः, पट्टिस इति दन्त्यसान्त इति मुकुट : ' परिवृताः परिवेष्टिताः शात्रवजनस्य शत्रुसमूहस्य प्राणा एवानिलः पवनस्तस्य संजिवृक्षा गृहीतुमिच्छा तया, समागताभिः सम्प्राप्ताभिः, भुजगीभिरिव पन्नगीभिरिव, असिलताभिः खड्गवल्लरीभिः, विलसिताः शोभिताः, समीकविलोकनार्थं युद्धदर्शनार्थम्, संनिहित सूर्यचन्द्र योनिकटस्थ ादित्यशशिनोः शङ्कावहानि संशोत्पादकानि यानि सौवर्णवखेटक मण्डलानि सुवर्णनिर्मित सुदृढखेटक समूहास्तैर्मण्डिताः शोभिताः, 'खेटक' इति 'ढाल' इति प्रसिद्धस्य नाम । विरोधिराजमण्डलस्य प्रत्यर्थिनृपतिसमूहस्य पक्षे प्रत्यर्थिचन्द्रविस्वस्य कवनाय ग्रसनाय, आगताभिः प्राप्ताभिः, विधुन्तुदपरम्पराभिः सैंहिकेयपङ्क्तिभिः ‘सैंहिकेयो विधुन्तुदः' इत्यमरः, शक्तिभिः शस्त्रविशेषैः, भयानका भयङ्कराः, उभयेऽपि द्विप्रकारा अपि सैनिकाः सुभटाः, अनल्पं भूयांसम्, संग्रामशिल्प समरचातुर्यम्, कल्पयितुं रचयितुम्, आरभन्त प्रक्रमन्ते स्म । शरासनगुणारवैरिति — शरासनगुणानां धनुःप्रत्यञ्चानामारवाः शब्दास्तैः परस्परविमर्द्दिभिर्मियो विमर्दकारिभिः, कुरुपतेर्जीवन्धरस्य, शराणां बाणानाम्, चयैः समूहैः, गभीराणि च तानि हयहेपितानि चेति गर्भारहयहेषितानि तैः समुच्चहयहेषानादैः, मदगजावलीनां प्रमत्तगजगणानां बृहितानि गर्जितानि तैः, गगनमण्डले नभोमण्डले, पूरिते संभृते, सति, जगत्रितयं लोकत्रितयम्, परमतोक्ता जैनेतरदर्शनोक्ता या
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy