SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सप्तमो लम्भः पत्रिकुलपरिवृताम, आयुधकान्तिसन्तानद्विगुणीकृतारुण्यरक्तमृत्तिकापरीतभूमिभागतया मूर्तमिव चापविद्याविशारदप्रतापमादधानाम , मध्ये निखातवत्रमयस्तम्भशोभिततया प्रहरणगावजित्य वादीकृतमिव कुलिशायुधकुलिशं बिभ्राणामायुधशाला शुभे मुहूर्ते प्रविश्य जीवन्धरः नितिपतितनयानुद्दिश्य कामुककौशलं विवरीतुमारेभ । नृपात्मजानां निचयस्ततो नु कोदण्डविद्याकुशलत्वमाप । तत्कीर्तिकल्लोलपरम्परा च जगत्त्रयं मोदरसं महीशः ।।५६।। विद्यावैदग्ध्यपीठीमधिवसति निजे नन्दनानां समाजे दृष्टिं हेमासनस्थे कुरुकुलतपने प्रीतिमन्तश्च चिन्ताम् । किं कुर्यामस्य वीरबजमहितकलादानमान्योपकार श्राध्यस्येति क्षितीशश्चिरतरमतनोद्धीमतामग्रगण्यः ।।५७।। तदनु कन्याविश्राणनं करणीयं गणयता नरपालमणिना प्रार्थितं परिणयं वरुणालयगभीरः करुणाकरा जीवन्धरः क्रमेणाङ्गीचकार । निखिलसर्वला तैः सेविता ताम्, पक्षे सर्वतः समन्तात् अमरैर्देवैः सेविता ताम् 'तोर्गन्ता म्रियतेऽनेन तोमरः' इति तोमरशब्दव्युत्पत्तिः 'सर्वला (शर्वला ) तोमरोऽस्त्रियाम्' इत्यमरः, जलधिवेलामिव सागरतीमित्र, प्रचुराः प्रभूता ये तरवारयः कृपाणास्तैविराजिता शोभिता ताम् पक्ष प्रचुरतराणि प्रभूततमानि यानि वारीणि जलानि तैविराजितां शोभिताम, वनसीमामिव काननमर्यादामिव, पत्रिकुलैः बाणसमू हैः परिवृता ताम् , पक्षे पत्रिकुलैः पक्षिसमूहैः परिवृता ताम् , आयुधानां शस्त्राणां कान्तेदीप्त्या द्विगुणीकृतं यदारुण्यं लौहित्यं तेन रक्ता लोहिता या मृत्तिका मृत् तया परीतो व्याप्तो भूमिभागो महींप्रदेशो यस्यास्तस्या भावस्तया, मूर्त सशरीरम्, चापविद्याविशारदस्य धनुर्विद्याकोविदस्य प्रतापस्तेजस्तम्, आदधानामिव बिभ्राणामिव, मध्येऽन्तः, निखातः समारोपितो यो वज्रमयस्तम्भः सुदृढस्तम्भस्तेन शोभिततया समुद्भासितत्वेन, प्रहरणगणः शस्त्रसमू हैः, विजित्य पराभूय, वन्दीकृतं कारावस्थापितम्, कुलिशायुधस्य वज्रायुधस्य पुन्दरस्येति यावत् , कुलिशं वज्रम्, बिभ्राणामिव दधानामिव, आयुधशालां शस्त्रागारम्, शुभे मङ्गले, मुहूर्ते समये, प्रविश्य प्रवेशं कृत्वा, जीवन्धरो विजयात्मजः, क्षितिपतितनयान् राजकुमारान् , उद्दिश्य समभिलच्य, कार्मुककोशलं शरासननैपुण्यम्, विवरीतुं व्याख्यातु प्रकटयितुमिति यावत् , आरेभे समारब्धवान् । श्लिष्टोपमालङ्कारः। नृपात्मजानामिति--ततस्तदनन्तरम्, नृपात्मजानां नरेन्द्रनन्दनानाम्, निचयः समूहः कोदण्डविद्यायां धनुर्विद्यायां कुशलत्वं नदीष्णत्वम्, आप लेभे, तस्य जीवन्धरस्य कीर्तिकल्लोलपरम्परा यशस्तरङ्गसन्ततिः, जगत्त्रयं लोकत्रितयम्, महीशो नृपः, मोदरसं च प्रहतिशयञ्च, आप लेभे, तु वितर्के । ५६ ॥ विद्यावैदग्ध्येति-धीमतां बुद्धिमताम् , अग्रगण्यः प्रधानः, क्षितीशो नृप; विद्यावैदग्ध्यं धनुविद्याकौशलमेव पीठी आसनं ताम् , अधिवसति आश्रयति, निजे स्वकीये, नन्दनानां पुत्राणाम् , समाजे समूहे, दृष्टिं स्निग्धां दृशम्, हेमासनस्थे सुवर्णपीठस्थिते कुरुकुलतपने कुरूवंशसूर्ये, जीवन्धर इति यावत्, प्रीति प्रसन्नताम् , अन्तश्च स्वकीयहृदये च, वीरवजैः सुभटसमू हैमहिता पूजिता या कला कोदण्डवैदग्धी तस्या दानमेव प्रदानमेव मान्यश्चासौ समादरणीयश्वासावुपकार उपग्रहश्चेति तेन श्लाघ्यः प्रशंसनीयस्तस्य, अस्य जीवन्धरस्य, किं किन्नामधेयम् , कुर्याम् विदध्याम् , उपकार मिति शेषः, इतीत्थम्, चिन्तां विचारसन्ततिम् , चिरतरं दीर्घकालपर्यन्तम् , अतनोत् विस्तारयामास ॥ ५७ ॥ तदन्विति-तदनु चिन्तानन्तरम्, कन्याविश्राणनं पतिवराप्रदानम्, करणीयं कर्तु योग्यम्, गणयता निश्चिन्वता, नरपालमणिना राजश्रेष्ठेन, प्रार्थितं याचितम्, परिणयं विवाहम् , वरुणालय इव सागर इव गम्भीरो धीर इति वरुणालयगम्भीरः, करुणाकरो दयाकरः, जीवन्धरः कुरुवंशाग्रणी, क्रमेण क्रमशः अङ्गीचकार स्वीचकार ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy