SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये अनङ्गतिलकाइया खचरकन्यकाहं विभो वनान्तमिदमापिता गगनचारिणा केनचित् । अनेन निजनायिकाभयवशेन निःसारिता दयाविसरवारिधे महित रक्षणीया त्वया ॥ ३१ ॥ अशरण्यशरण्यत्वं परोपकृतिशीलता । दयापरत्वं दाक्षिण्यं श्रीमतः सहजा गुणाः ।। ३२ ॥ "तावता, हा प्रिये हा प्राणकान्ते क्कासि कासि, वियोगवेदना विपमिव विसर्पति, पावक इवाङ्गानि निर्दहति, मृत्युरिव प्राणान्निःसारयति, मोह इव विद्यां विलुम्पति, कृकच इव मर्माणि कृन्तति" इत्यादि कस्यचिदार्तस्वरं निशम्य विद्याधरविशालनयनायां मिपेणान्तहितायां, विस्मयविस्तृतानं कुरुहर्यक्षं सोऽपि विद्याधरः समीपमागत्य सगद्गदमेवमुवाच । सतीमुदन्याकुलितान्तरङ्गामत्रैव संस्थाप्य जलाशयाय । गतोऽहमागत्य सरोरुहाक्षी नाद्राक्षमद्य प्रतिकूलदिष्टात् ।। ३३ ।। नरोत्तम तया साधं विद्यापि मम निर्गता । मनोवृत्तिश्च तत्कतु चिन्तापि न हि शक्यते ।। ३४ ।। समुत्पन्नं कुतुहलं कौतुकं यस्यास्तथाभूता सती, निजोदन्तं स्ववृत्तान्तम्, इन्थमनेन प्रकारेण, प्रकटयामास प्रकथयामास । अनङ्गतिलकाह्वयेति-हे विभो हे स्वामिन् , हे दयाविसरवारिधे हे कृपाविस्तारसागर, हे महित हे पूजित, केनचिकेनापि, गगनचरिणा खेचरेण, इदमेतत् , बनान्तं काननान्तम्, आपिता आगमिता, निजनायिकाभयवशेन स्ववल्लभाभीतिवशेन, निःसारिता स्वसमीपादरीकृता, अनङ्गतिलकाह्वया अनङ्गतिलका नाम्नी, खचरकन्यका विद्याधर पुत्री, अहं भवत्पुरो वर्तमाना, त्वया भवता, रक्षणीया रक्षितुं योग्या, अस्मीति शेषः । पृथिच्छिन्दः ॥ ३१ ॥ अशरण्येति-अशरण्यानां शरणरहितानां शरण्यत्वं रक्षकत्वम् इन्यशरण्यशरण्यत्वम्, परोपकृतिः परोपकारः शीलं स्वभावो येषां तेषां भावः परोपकृतिशीलता, दयापरत्वं करुणापरता, दाक्षिण्यमौदार्यम् । एते श्रीमतो महानुभावस्य, सहजाः स्वाभाविकाः, गुणा वैशिष्ट्योत्पादकाः, सन्तीति शेषः ॥ ३२ ॥ तावतेति-तावता तावत्कालेन, हा प्रिये वल्लभे, हा प्राणकान्ते हा जीवितेश्वरि, क्वासि क्वासि कुत्र वर्तसे, कुत्र वर्तसे, वियोगवेदना विरहव्याधिः, विषमिव गरलमिव, विसर्पति प्रसरति, पावक इव वह्निरिव अङ्गानि प्रतीकान् , निर्दहति भस्मसात्करोति, मृत्युरिव यम इव, प्राणान् आयुःप्रभृतीन् , निःसारयति निष्कासयति, मोह इव भ्रम इव, विद्यां मन्त्रसिद्विम्, विलुम्पति लुप्तां करोति, कृकच इव करपत्रमिव, मर्माणि ईर्माणि कृन्तति छिनत्ति, इत्यादि इतिप्रभृतिकम्, कस्यचित्कस्यापि, आर्तस्वरं पीडितशब्दम्, निशम्य श्रुत्वा, विद्याधरविशालनयनायां खेचरायताच्याम्, मिषेण व्याजेन, अन्तहितायां तिरोहितायाम्, सत्याम्, सोऽपि पूर्वोकशब्दकर्ता, विद्याधरः खेचरः, विस्मयेन विस्तृते अक्षिणी यस्य तम् आश्चर्यायतलोचनम्, कुरुहर्यक्षं कुरुसिंहम्, 'सिंहो मृगेन्द्रः पञ्चास्यो यक्षः केसरी हरिः' इत्यमरः, समीपं निकटम्, आगत्य समेत्य, सगद्गदं समवरुद्धकण्ठस्वरसहितं यथा स्यात्तथा, एवं वक्ष्यमाणप्रकारेण, उवाच जगाद । सतीमुदन्येति-सतीमपांसुलाम्, उदन्यया पिपासयाकुलितं दुःखीभूतमन्तरङ्ग हृदयं यस्यास्ताम्, मरोरहाक्षी कमललोचनाम्, अत्रैव इहैव, संस्थाप्य स्थितां कृत्वा, जलाशयाय सरोवराय, गतो यातः, अहंतत्प्राणेश्वरः आगत्य जलाशयात्प्रत्यावृत्य, अद्य साम्प्रतम्, प्रतिकूलदिष्टात् विरुद्धभाग्यात्, नादाक्षम् नावलोकयामास ॥३३॥ नरोत्तमेति हे नरोत्तम हे पुरुपोत्तन, यद्यस्मात् , तया प्राणवल्लभया, साधं सह, मम खेचरस्य, विद्यापि विचाराविचारशक्तिरपि, मनोवृत्तिश्च मानसिकशक्तिरपि निर्गता निष्क्रान्ता, तत् तस्मात् कारणात् चिन्तापि, सा कुत्र गता भवेदित्यादिविचारोऽपि, कर्नु विधातुम्, न हि शक्यते न वै पार्यते ॥३४॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy