SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १०२ जीवन्धरचम्पूकाव्ये महाचिन्तेन भूकान्तेन कारितामिमां निर्विपीकुर्वते दास्यते सार्धराज्या कन्यकेति घोपणां निशम्य समागतैर्विपवैद्यैश्चिकित्सितापि नोल्लाघतामाससाद । पद्मापि गौरी नरपालपुत्री मध्येन हीनापि सुमध्यमा सा । भुजङ्गदष्टा वत कन्यकापि. विभाति सौख्यादिव मीलिताक्षी ॥ ३५ ॥ भवतां विषविज्ञानमस्ति चेन्निस्तुलप्रभम् । निर्विषीक्रियतामद्य कन्यारत्नं धरापतेः ॥ ३६ ।। इति तेषां वचनमाकर्ण्य किंचिदस्तीति प्रत्युत्तरेण तान्कलकलेन केकिन इव जलधरो जीवन्धरः सम्मोदयन् , तैरनुगम्यमानो राजभवनमासाद्य नगरमोहनाङ्गों सगरमोहनाङ्गी वयसा विषेण च श्यामागतया मालतीलतासर्वसाम्यमनुभवन्ती म्लानाम्बुजसन्निभभालां निष्पिष्टबालमृणाल संमितभुजयुगलां श्वसितकम्पितघनस्तनकुड्मलां नरपालबालामवलोक्य पञ्चशरग्रहारवञ्चितेन मनसा यक्षराजस्य स्मरन्नभिमन्त्रयामास । __ तावन्मोहन मुक्ता नरपतिदुहिता चन्द्रिकेव ग्रहण धूमेनाग्नेः शिखेवाचलघनतमसा मुच्यमानेव राका । अर्धराज्येन सहिता सार्धराज्या, कन्यका पुत्री, दास्यते प्रदत्ता भविष्यति, इत्येवम्प्रकाराम, घोपणामुच्चैघुष्टम् ‘उच्चैर्युष्टं तु घोषणा' इत्यमरः, निशम्य श्रुत्वा, समागतैः समायातैः, विपवैद्यैर्नरेन्द्रः, चिकित्सितापि कृतभैषज्यापि, उल्लाघतां नीरोगताम्, नाससाद न प्राप । पद्मापीति-पद्मापि लक्ष्मीरपि गौरी कात्यायनीति विरोधः, पक्षे पनापि पद्मत्यभिधानापि गौरी गौरवर्णा, मध्येनावलग्नेन हीनापि रहितापि सुमध्यमा सुन्दरावलग्नवतीति विरोधः, पक्षे मध्येन हीनापि कृशमध्यापि, अथवा मध्येन अधमेन हीनापि सुमध्यमा, 'मव्यं न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु । लग्नकेऽप्यधमे मध्यमस्त्रियामवलग्नके' इति विश्वलोचनः, कन्यकाप्यजातपाणिग्रहापि भुजङ्गेन विटेन दष्टा कृतदन्तक्षतेति विरोधः, पक्षे भुजङ्गन नागेन दष्टा दंशनविषयीकृता, 'मुजङ्गो भुजगो पिङ्गे' इति विश्वलोचनः, सा पूर्वोक्ता, नरपालपुत्री राजपुत्री, सौख्यादिवानन्दातिरेकादिव, मीलिताक्षी निर्मालितनयना, विभाति शोभते । विरोधाभासोऽलङ्कारः ॥३५॥ भवतामिति--चेद्यदि, भवतां श्रीमताम्, निस्तुलप्रभमनुपमम्, विषविज्ञानं गरलापहारबोधः, अस्ति विद्यते, तर्हि, धरापतेः पृथ्वीपालस्य, कन्यारत्नं पुत्रीश्रष्टा, अद्यास्मिन् दिवसे, निर्विपीक्रियताम्, गरलशून्याक्रियताम् ॥३६॥ इति तेषामिति--इति पूर्वोक्तप्रकारम्, तेषां जनानाम्, वचनं वाणीम्, आकर्ण्य श्रुत्वा, किञ्चित्किमपि, अस्ति विद्यते, इति प्रत्युत्तरेण इति प्रतिवचनेन, कलकलेन गर्जनेन, केकिनो मयूरान्, जलधर इव मेघ इव, तान् जनान् , सम्मोदयन् हर्पयन् , जीवन्धरो विजयासूनुः, तैः पुरुषः, अनुगम्यमानोऽनुव्रज्यमानः, सन् , राजभवनं नरेन्द्रमन्दिरम्, आसाद्य प्राप्य, गरेण विषेण मोहनाङ्गी मूछितशरीरा न भवतीति नगरमोहनाङ्गी तां तथाभूतामपि गरेण सहिता सगरा सविपा, सगरा चासौ मोहनाङ्गी चेति सगरमोहनाङ्गी तामिति विरोधः । पक्षे नगरमोहनं पौरजनमोहोत्पादकमङ्ग शरीरं यस्यास्तामिति, वयसा दशया, विषेण च गरलेन च, श्यामागतया यौवनोपलक्षितशरीरतया पक्षे नीलशरीरतया च, मालतीलताया मल्लीवल्ल्याः सर्वसाम्यं सर्वसादृश्यम्, अनुभवन्तीं प्राप्नुवानाम्, म्लानाम्बुजसंनिभो म्लानकमलकल्पो भालो निटिलो यस्थास्ताम्, निप्पिष्टं निमर्दितं यद्बालमृणालं मृदुविसं तेन सम्मितं भुजयुगलं बाहुयुगं यस्यास्ताम्, श्वसितेन श्वासेन कम्पितौ वेपितौ धनस्तनकुड्मलौ पीनवक्षोजमुकलको यस्यास्ताम्, नरपालबालां राजदुहितरम्, अवलोक्य दृष्ट्वा, पञ्चशरप्रहारेण कामाघातेन वञ्चितं प्रतारितं तेन, मनसा चेतसा यक्षराजस्य सुदर्शनस्य, स्मरन् स्मरणं कुर्वन् 'अधीगर्थदयेशां कर्मणि' इति पष्ठी, अभिमन्त्रयामास मन्त्रप्रयोगञ्चकार । तावन्मोहेनेति-तावत् तावता कालेन, ग्रहेण राहुणा, मुक्ता त्यक्ता, चन्द्रिकेव ज्योत्स्नेव, धूमेन
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy