SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पञ्चमो लम्भः ६७ नीपपादपस्कन्धनिपण्णशुण्डादण्डं करिणीसहायं शुण्डालमण्डलम् , कुत्रचित्स्तनन्धयशिशुसंरुद्धां हरिणीं भुग्नग्रीवमवलोकयन्तं धावमानहरिणम् , कुत्रचन दशनान्तरस्थिततृणकवलच्छेदशब्दं नियम्य व्याजिह्माङ्गः कुरङ्गैः श्रूयमाणगानकलाप्रवीणं किरातस्त्रैणम्, कचन गर्जनतर्जितस्तम्बेरमनिचयं मृगेन्द्रचयम, कुत्रचिद्भूधरीकारमजगरनिकरं पश्यन् , क्रमेणातिलविन्तविपिनपथः, क्वचिदरण्ये समुद्गतधूमपरीताभ्रऋषभूमिरुहतया सजलजलधरश्यामलं तरुनिकरमिव कुर्वन्तं सोपघटचटात्कारेणाट्टहासमिवातन्यानमतिवेगसमाक्रान्तकाननं दवदहनं ददर्श । असूर्यम्पश्येषु प्रचुरतरुपण्डान्तरतल प्रदेशेष्वत्यन्तं यदुपितमभूदन्धतमसा । तदग्नित्रासेनोद्यतमिव तदा धूमपटलं __ तमालस्तोमाभं गगनतलमालिङ्गय ववृधे ।। १८ ।। दवानलोद्गता धूम्या महती गगनश्रिया । घृतनीलपटीवासौ बभौ व्याप्रदिगन्तरा ।। १ ।। तदानीं दवहुताशनपरीतं विपिनम् , अनलवृद्धिलिङ्गः विस्फुलिङ्गरुडुनिकरमिव, देदीप्यमान न्तरकुटुम्बि, तच्च तच्छबरकदम्बकञ्च भिल्लसमूहश्चेति तत् । कुत्र च क्वापि, नीपपादपानां कदम्बवृक्षाणां स्कन्धेषु प्रकाण्डेषु निपण्णः स्थापितः शुण्डादण्डः करदण्डो यस्य तत् । करिणीनां हस्तिनीनां सहायस्तम, हस्तिनीसहितमिति यावत्, शुण्डालमण्डलं हस्तिसमूहस्, कुत्रचित् क्वचित् , स्तनंधौदुग्धपायिभिः शिशुभिः शावकैः संरुद्धा बाधितगमना ताम्, हरिणी मृगीम्, भुग्ना वक्रीकृता ग्रीवा कण्ठो यस्मिन्कर्मणि तद्यथा स्यात्तथा, अवलोकयन्तं पश्यन्तम्, धावमानश्चासौ हरिणश्चेति तं पलायमानमृगम्, कुत्रचन क्वापि, दशनान्तरे दन्तमध्ये स्थितस्य विद्यमानस्य तृणकबलस्य शष्पग्रासस्य च्छेदशब्दः खण्डनध्वनिस्तम्, नियम्य निरुध्य, व्याजिह्माङ्गरायतशरीरैः, कुरङ्गैहरिणः, श्रूयमाणाकर्ण्यमाना या गानकला गायनचातुरी तस्यां प्रवीणं निपुणम्, किरातस्त्रैणं शबरस्त्रीसमूहम्, क्वचन क्वापि, गर्जनेन स्वशब्देन तर्जितो भर्त्सितः स्तम्बेरमनिचयो हस्तिसमूहो येन तम्, मृगेन्द्रचयं सिंहसमूहम्, कुत्रचित्क्वचित् , भूधराकारं पर्वताकृतिम्, अजगरनिकरं शयुसमूहम् 'अजगरे शयुवाहस इत्युभौ' इत्यमरः, पश्यन् विलोकयन् , क्रमेण क्रमशः, अतिलचितविपिनपथो व्यतिक्रान्तारण्यमार्गः सन् , क्वचिन्कुत्रचित् , अरण्ये वने, समुद्गतेन समुत्पतितेन धूमेन धूनेण परीता व्याला अभ्रङ्कपभूमिरुहा उत्तुङ्गपादपा येन तस्य भावस्तत्ता तया, तरुनिकरं वृक्षसमूहम्, सजलजलधरैर्जलभृतपयोधरैः श्यामलमिव मलिनमिव, कुर्वन्तं विदधानम्, प्लोपेण दाहेन यश्चटचटात्कारश्चटचटशब्दविशेषस्तेन, अट्टहासं सशब्दहास्यम्, आतन्वानमिव विस्तारयन्तमिव, अतिवेगेन प्रबलरयेण समाक्रान्तं काननं वनं येन तम्, दवदहनं वनानलम्, ददर्श विलोयामास । असूर्यम्पश्येष्विति-यत्, अन्धतमसं गाढतिमिरम्, 'अबसमन्धेभ्यस्तमसः' इत्यच , सूर्य न पश्यन्तीत्यसूर्यम्पश्यास्तेषु सूर्यप्रकाशरहितेपु, प्रचुरतरुपण्डस्य प्रभूतवृक्षसमूहस्यान्तरतलप्रदेशा मध्यतलस्थानानि तेपु, अत्यन्तं प्रचुरं यथा स्यात्तथा, उपितं कृतनिवासम् , अभूद् बभूव, तदा तस्मिन्काले, अग्निवासेन वह्निभयेन, उद्यतं समुत्पतितम्, तदिव अन्धतमसमिव, तमालस्तोमाभं कालस्कन्धसमूहसदृशम्, धूमपटलं धूम्रसमूहः, गगनतलं नभःस्थलम्, आलिङ्गय समाश्लिष्य, ववृधे वृद्धिंगतो बभूव । उत्प्रेक्षा। शिखरिणीवृत्तम् । दवानलोद्गतेति-व्याप्तमाच्छादितं दिगन्तरं काष्ठान्तरालं यया सा, दावानलावनाग्नेरुद्गता समुत्पतिता, महती विशाला, असौ धूमानां समूहो धूम्या धूम्रश्रेणिः, गगनश्रिया नभोलपम्या, पृतनीलपटीव तश्यामलसाटिकेब, बभौ शुशुभे । रूपकोन्प्रेक्षे ॥ १६ ॥ तदानीमिति-तदानीं तस्मिन् काले, दवहुताशनेन वनवह्निना परीतं व्याप्तम्, विपिनं गहनम्, अनलवृद्धरग्निवृद्धलिङ्गानि चिह्नानि तैः, विस्फुलिङ्गरग्निकणैः, उदितः समुद्गत उडुनिकरो नक्षत्रसमूहो
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy