SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये अथ ललान्टतपतपनविम्बे गगनकाननमध्यपुञ्जीभूतदबहुताशनसकाशे, सशावकमृगपूगेन सह मूलतलमाश्रिते नमेरुतरुच्छाये, सरोराजहंसेपु नलिनमुत्सृज्य पत्रच्छायामाश्रितेपु दीर्घिकाजलेषु शफरोद्वर्तनैरार्कसंतापादिव कथत्सु, शिखण्डिसु नृत्तलीलाविरहेऽपि बहभारं छत्रीकृत्य केकिनीः सेवमानेपु, मधुकरेषु गजगण्डतलात्कर्णपालीमाश्रितेपु, कुसुमावचयश्रान्ताभिः का ताभिः सह व्यात्युक्षिकां कर्तुकामा भर्तारः शनैः शनैनवापगामाजग्मुः । नवापगेयं नलिनेक्षणानां द्विजारवैर्द्राक्कुशलानुयोगम। विधाय डिण्डीरमनोज्ञहासा चलोमिहस्तैर्दिशति स्म पाद्यम् ।।१६।। तावद्यौवनदिनमणिप्रकाशपरिवर्धितामोदवक्षोमहचक्रवाकयुगलासु कान्तिकल्लोलनिालासु मञ्जुगुञ्जकलहंसकास्वपरास्विव तरङ्गिणीपु पुरतरुणीपु दयितैः समं सरितमवगाह्य जलक्रीडामतन्वतीपु कश्चिदम्भसि विकूणितेक्षणं हेमयन्त्रविगलज्जलैर्मुहुः । कामिनीमुखमसिञ्चदञ्जसा चन्द्रविम्बमिव द्रष्टुमागतम् ॥१७॥ दुःखसुखयोः, स्मर्तव्यः स्मरणीयः अस्मि । अहं कृतार्थः कृतकृत्यः, कर्तव्यो विधातव्यः । इत्युक्त्वा देवो यक्षः, तिरोऽभवत् अन्तर्दधे । ] अथ ललाटन्तपतपनबिम्ब इति-अथानन्तरम्, ललाटं भालं तपःति ललाटन्तपं तच्च तत्तपनबिम्बञ्च सूर्यबिम्बञ्चेति तस्मिन् , गगनकांननस्यान्तरिक्षारण्यस्य मध्ये पुनीभूतो राशीभूतो यो दवहुताशनो बनानलस्तस्य सकाशं सदृशं तस्मिन् सति, नमेरुतरोश्छायावृक्षस्य च्छायानातप इति नमेरुतरुच्छायम् तस्मिन् 'छाया बाहुल्ये' इति क्लीवन्वम्, सशावकानां शिशुसहितानां मृगाणां हरिणाणां पूगः समूहस्तेन, सह सार्धम्, मूलतलमधस्तलम् आश्रिते प्राप्ते सति, सरसि विद्यमाना राजहंसा इति सरोराजहंसास्तेपु, कासारसितच्छद विशेपेषु, नलिनं कमलम्, उत्सृज्य त्यक्त्वा, पत्रच्छायां दलानातपम्, आश्रितेपु प्राप्तेपु सन्सु, दीर्घिकाणां वापिकानां जलानि तोयानि तेपु, शफराणां तिमीनामुद्वर्तनानि समुच्छलनानि तैः, आकसन्तापात् सूर्यकृतसन्तापात् , क्वथत्सु पच्यमानेषु सन्सु, शिखण्डिपु मयूरेप, नृत्तलीलाविरहेऽपि नृत्यक्रीडाऽभावेऽपि, बहभारं पिच्छसमूहम्, छत्रीकृत्यातपत्रीकृत्य, केकिनीर्मयरी:, सेवमानेप समुपचरत्सु सत्सु, मधुकरेप भ्रमरेप, गजानां करिणां गण्डतलात्कटप्रदेशात्, कर्णपाली श्रवणतटम्, आश्रितेपु प्राक्षेप सन्सु, कुसुमावचयेन पुष्पबोटनेन श्रान्ताः खिन्नास्ताभिः, कान्ताभिः कामिनीभिः, सह सार्धम्, व्यात्युक्षिकां जलकेलिम, कर्तुकामा विधातुमुत्सुकाः, भर्तारः स्वामिनः, शनैःशनैर्मन्दं मन्दम्, नवापगां प्रत्यग्रतरङ्गिीम्, आजग्मुराययुः। नवापगेयमिति-इयमेपा, नवापगा नृतननदी, द्विजानां पक्षिणामारवाः शब्दास्तैः, द्राक् झटिति, नलिनेक्षणानां कमललोचनानाम् नारीणामिति यावत्, कुशलानुयोग क्षेमप्रश्नम्, विधाय कृत्वा, डिण्डीर एव फेन एव मनोज्ञहासो मनोहरहासो यस्यास्तथाभूता सती, चलोर्मय एव चपलतरङ्गा एव हस्ताः करास्तैः, पाद्यं पादोदकम्, दिशति स्म दत्तवती ॥१६॥ तावद्यौवनेति तावत् तावता कालेन, यौवनमेव तारुण्यमेव दिनमणिः सूर्यस्तस्य प्रकाशेनालोकेन परिवर्धितामोदं समेधितह वक्षोरुहचक्रवाकयुगलं कुचकोकयुग्मं यासु तासु, कान्तयो दीप्तय एव कल्लोलास्तरङ्गास्तैनिलोलाश्चञ्चलास्तासु, मञ्जु मनोज्ञं यथा स्यात्तथा गुञ्जन्ति शब्दं कुर्वन्ति यानि मञ्जीरकाणि तुलाकोटयस्तान्येव कलहंसाः कादम्बा यासु तासु, अपरासु द्वितीयासु, तरङ्गिणीपु नदीषु, इव यथा, पुरतरुणीपु नगरनारीपु, दयितैर्वल्लभैः, समं सार्धम्, सरितं सवन्तीम्, अवगार प्रविश्य, जलेन जले वा क्रीडा जलक्रीडा तां जलकेलिम्, आतन्वतीषु विस्तारयन्तीपु सतीपु कश्चिदम्भसीति-कश्चित्कोऽपि नायकः, अम्भसि सलिले, विकूणितेक्षणं संकोचितनयनम्, द्रष्टुमवलोकयितुम्, जलक्रीडामिति यावत्, आगतमायातम्, अञ्जसा साक्षात्, चन्द्रबिम्बमिव शशिमण्डलमिव, कामिनीमुखं वनितावदनम्, हेमयन्त्रात्सुवर्णयन्त्राद्विगलन्ति पतन्ति यानि जलानि तोयानि तैः, मुहुरनेकवारम्, असिञ्चत् सिपेच । रथोद्धतावृत्तम् 'रान्नराविह रथोद्धता लगा' इति लक्षणात् ॥१७॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy